Book Title: Sanskrit Margopdeshika
Author(s): Ramkrishna Gopal Bhandarkar
Publisher: Jayant Book Depo

Previous | Next

Page 226
________________ ॥ पञ्चमः पाठः॥ महापुरुष-सुभाषितानि । कोऽतिभारः समर्थानाम् ॥ १॥ महान महत्स्वेव करोति विक्रमम् ॥२॥ सम्पत्सु महतां चित्तं भवत्युत्पलकोमलम् । मापत्सु च महाशैलशिलासङ्घातकर्कशम् ॥ ३ ॥ वज्रादपि कठोराणि मृदूनि कुसुमादपि । लोकोत्तराणां चेतांसि को नु विज्ञातुमर्हति ॥ ४ ॥ उदये सविता रक्तो रक्तश्चास्तमयें तथा । सम्पत्तौ च विपत्तौ च महतामेकरूपता ॥५॥ यथा चित्तं तथा वासा यथा वाचा तथा क्रिया। चित्ते वाचि क्रियायर्या च महतामेकरूपता ॥ ६॥ मनस्यन्यद् वचस्यन्यत् कर्मण्यन्यद् दुरात्मनाम् । मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् ॥ ७ ॥ अधमा धनमिच्छन्ति धनमानौ तु मध्यमाः । उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ ८ ॥ प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता विरमन्ति मध्याः। विगैः पुनःपुनरपि प्रतिहन्यमानाः प्रारब्धमुत्तमगुणा न परित्यजन्ति ॥९॥ . २ विक्रम – ५२ . उत्पल-मा. शैल=५त. कर्कश-४२. .५ सविता सूर्य. भस्तमयसायम

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242