Book Title: Sanskrit Margopdeshika
Author(s): Ramkrishna Gopal Bhandarkar
Publisher: Jayant Book Depo

Previous | Next

Page 236
________________ ॥त्रयोदशः पाठः॥ सामान्यनीति-सुभाषितानि । * पदं हि सर्वत्र गुणैनिधीयते ॥ १ ॥ हितं मनोहारि च दुर्लभं वचः ॥ २ ॥ अनारम्मो हि कार्याणां प्रथमं बुद्धिलक्षणम् । आरब्धस्यान्तगमनं द्वितीयं बुद्धिलक्षणम् ॥ ३ ॥ यस्य नास्ति स्वयम्प्रज्ञा शास्त्रं तस्य करोति किम् । लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥ ४ ॥ इदमेव हि पाण्डित्यं चातुर्यमिदमेव हि। इदमेव सुवुद्धित्वमायादल्पतरो व्ययः ॥ ५ ॥ धनधान्यप्रयोगेषु विद्यासमहणेषु च। . आहारे व्यवहारे च स्पष्टवक्ता सुखी भवेत् ॥ ६ ॥ काव्यशास्त्रविनोंदेन कालो गच्छति धीमताम् । व्यप्तनेन च मूखणां निद्रया कलहेन वा ॥ ७ ॥ मोता शत्रुः पिता वैरी येन बालो न पाठितः । न शोमते सभामध्ये हंसमध्ये बको यथा ॥ ८ ॥ पुस्तकं येन नाधीतं नाधीतं गुरुसन्निधौ । सभायां शोभते नैव हंसमध्ये बको यथा ॥९॥ यस्मिन् देशे न सम्मानं न वृत्तिने च बान्धवाः । . न च विद्यागमो यत्र न तत्र दिवसं वसेत् ।। १० ।। - ટિપ્પણ લો. ૧ ગુણો સર્વત્ર પિતાનું સ્થાન કરે છે. , ५ आयात् अल्पतरः व्ययः=मा त मोछ। म. ७ व्यसनमुनार को३ सराम ०५सन. १० वृत्ति-प-धी.

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242