Book Title: Sanskrit Margopdeshika
Author(s): Ramkrishna Gopal Bhandarkar
Publisher: Jayant Book Depo

Previous | Next

Page 237
________________ ॥ चतुर्दशः पाठः ॥ आत्मश्रेयः - सुभाषितानि । श्लोकार्थेन प्रवक्ष्यामि यदुक्तं प्रन्थकोटिभिः । परोपकारः पुण्याय पापाय परपीडनम् ॥ १ ॥ ऊर्ध्वबाहुविंरौम्येष न च कश्चिच्छृणोति मे । धर्मादश्च कामश्च स किमर्थं न सेव्यते ॥ २ ॥ मातृवत् परदारेषु परद्रव्येषु लोष्टवत्। आत्मवत् सर्वभूतेषु यः पश्यति स पश्यति ॥ ३ ॥ सर्वाः सम्पत्तयस्तस्य सन्तुष्टं यस्य मानसम् । उपानद् गूढपादस्य ननु चर्मावृतैव भूः ॥ ४ ॥ अन्नदानं परं दानं विद्यादानं ततोऽधिकम् । अनेन क्षणिका तृप्तिर्यावज्जीवं च विद्यया ॥ ५ ॥ दानं भोगो नाशस्तिस्त्रो गतयो भवन्ति वित्तस्य । यो न दक्षति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥ ६ ॥ वने रणे शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा । सुतं प्रमतं विषमस्थितं वा रक्षन्ति पुण्यानि पुराकृतानि ॥७॥

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242