Book Title: Sangrahani Sutram
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 5
________________ सिंहसूरीणां" विनीतविनेयत्वेन ख्यातिं गतानामेषां मुनिपुङ्गवानां चरितलवोऽयं-"मलधार" गच्छसुरशाखिमूलभूतास्तृतीया अभयदेवमूरयः । तृतीयाभयदेवसूरित्वेन विश्रुता एते बहुश्रुता गुर्जरधरित्रीश्वरेण श्रीमता “कर्ण" नरेश्वरेण “ मलधारी" तिपदव्या समलं-12 कृताः । किञ्च-सौराष्ट्रभूमीशृङ्गारहारेण “ खेङ्गारेण" महाराजेनापि स्वकीयसन्मानपात्रीकृता अमी आसन् । अथैते प्रश्नवाहनकुलीनकोटिकगण-मध्यमशाखायाः प्रवृद्धभद्रस्य स्थूलभद्रस्य भद्रतमे वंशे "हर्षपुरीयं" गच्छं विभूपयांबभूवुः । एतेषां गुरवस्तु वस्तुतत्त्वसंप्रा-| तसज्ज्ञानाः श्रीजयसिंहाभिधानाः सूरय आसन् । एते किल सूरयः परस्सहस्रान् द्विजातीनाहतान् विदधते स्म । एतेषामेवोऽपदेशेन मरु-14 स्थले वर्तमाने “ मेरताभिधाने पुरे श्रीजिनमन्दिर सुन्दर निर्मापितं वरिवर्ति । एषामेवोदाराशयानामुपदेशं पालयता महीपालेन "श्रीभुवनिपालेन" जैनमन्दिरे समागतानां श्रीजिनराजपूजिना करो नितान्तं निर्मुक्तः । एतेषामेवानुसरता आज्ञा राज्ञा "श्रीजयसिंहेन""अ जयमेरु " पुराधीशेन स्वकीये प्राज्येऽपि राज्ये " ऽष्टमीचतुर्दशी-सितपञ्चमीषु जन्तुवधनिषेधघोषणा प्रदापिता” एतदुपदेशानुसारिणा |श्रीशाकम्भरी ( साँभर ) महाराजेन श्रीरणस्तम्भ ( रणथंभोर ) नाम्नि नगरेऽवदातशातकुम्भकुम्भसंभूषितशिखरामं श्रीजिनायतनं निर्मा-| पितं । एषां राजमाननीयानां प्रचुरप्रभावप्रकर्षशालिनां तपस्तेजस्तिरस्कृततेजोमालिनां समग्रसद्गुणरत्नाकराणां करुणाकराणां भूरीभव्यानां सूरीणां वर्णनागोचरं चरितं कथंकारं ग्रन्थविस्तारोद्भूतप्रभूतभीतिभाजो वयं वर्णनापथमानयामः ? इत्यन्तिमप्रभावोद्बोधकमाश्चर्या-13 |पादकमन्तिमसमयप्रवृत्तं वृत्तं समुल्लिख्यैव प्रकृतमुपसंहरामः । यदा किलैते महाशया 'अजयमेरु' पुरेऽनशनं गृहीत्वा मानवीयां लीलां संहरन्तिस्म तदा शव मिलिन्दानन्दने चान्दने स्यन्दने संस्थाप्य स्वयं तत्रयो महाराजो "जयसिंहः" पदातीभूतः प्रभूतैः सचिवसामन्तादिभिः प्रजाभिश्च साकमनुससार । अन्ते च सजातेऽग्निसँस्कारे जनास्तदीयं भस्मापि समानीतवन्तः । किंबहुना ? ये खलु तद् भस्म तदा लब्धं lain Education For Private & Personal use only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 292