Book Title: Sangrahani Sutram
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 3
________________ Jain Education सं. प्र. १ अर्ह । ॥ श्रीमद्विजयानन्द सूरिपादपद्मभ्यो नमः ॥ " श्रीचन्द्रसूरिसङ्कलितं सङ्ग्रहणीसूत्रं श्रीदेवभद्रमुनीश विहितवृत्तिसंवलितम् " ॥ तत्रायं उपोद्घातः. जाताः पञ्च मतिश्रुतावधिमनः कैवल्यपुत्राः प्रभोस्तन्मध्ये श्रुतनन्दनो भगवता संस्थापितः स्वे पदे । अङ्गोपाङ्गमयश्च पुस्तकगजाध्यारोहलब्धोदयः, सिद्धान्ताभिधभूपतिर्गणधरामात्यश्चिरं नन्दतात् || १ || इहातिगम्भीरनीरमहानीरधिमध्यनिपतितानर्घरत्नमिवातिदुर्लभं प्राप्य मानुषं जन्म ततोऽपि चानादिनिधनदारिद्र्यनिद्राविद्रावणसमर्थ प्राप्य द्विविधं चरणं शास्त्राध्ययनरसिकेन भाव्यं, शास्त्रं च कर्तुः प्रामाण्ये प्रामाण्यमञ्चति "वक्तुः प्रामाण्ये वचनप्रामाण्य " मिति वचनात्, अथ के निखिलसुविहितसूरिसुप्रतीककल्पाः श्रीमच्छ्रीचन्द्रसूरिप्रवराः कदाचातिपावनेनात्मजीवनेन भारतभूमिमलञ्चकुरित्यत्र समाधिमग्रे | आविष्करिष्यामः । कुत्र जाताः क वृद्धिं गताः कदा निष्क्रान्ताः कुत्र विहृताः काँस्कान् ग्रंथान् रचयाञ्चक्रुरितिसर्वं सर्वसामग्र्यभावात् | निर्णेतुं न शक्यते । केवलं निश्चीयते कतिभिर्प्रमाणैर्यथैते महात्मानो द्वादश्यां विक्रममशताच्यां प्रवर्तमानायां वर्तमाना बभ्रुवुः, वरिवर्तति | खल्वेषामन्तिमश्रुतकेवलिश्रीस्थूलभद्रर्षेरन्वयसंभवः, तच्चेत्थं श्रीप्रश्नवाहनकुले, कोटिकनामनि गणे जगद्विदिते । श्रीमध्यमशाखायां हर्षपुरीयाभिधे गच्छे ॥ १ ॥ For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 292