Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 9
________________ जगन्नाथपण्डितस्य 'रसगङ्गाधरः', श्रीमानन्दवर्धनस्य 'ध्वन्यालोकः', श्रीजयदेवविबुधस्य 'चन्द्रालोकः', श्रीधनञ्जयनामककवेः 'दशरूपकम्', श्रीभरतसाक्षरस्य 'नाट्यशास्त्रम्', अन्यच्च श्रीलङ्कारचिन्तामरिणः, सरस्वतीकण्ठाभरणमित्यादि-महान्तोऽपि ग्रन्थाः काव्यतत्त्वानां समुचितज्ञानाय विरचिता विलसन्तितराम् । प्राचीनाः विद्वान्सः छन्दसां पक्षधरा आसन् । ते कथञ्चिद् व्याकरणशुद्धिमुपेक्षितवन्तः किन्तु छन्दसां भङ्गन । अस्मिन् सन्दर्भे उक्तिरियं प्रसिद्धा-'अपि माषं मषं कुर्यात् छन्दोभङ्ग न कारयेत्' । कविः शब्दानां विक्रियां कत्तमर्हति न तु छन्दसां भङ्गम् । यतो हि काव्याधारः छन्द एव । कालक्रमेण काव्यक्षेत्रऽपि परिवर्तनानि प्रारब्धानि । शनैः शनैः छन्दसां नियन्त्रणानि शिथिलानि सजातानि । हिन्दीभाषायां तु शिथिलतेयं समग्र क्रान्तिरिव परिलक्ष्यते । परिणामतो मुक्तकछन्दसां प्रवर्त्तनमभूत् । तथापि छन्दसामुपादेयता अतिरोहिता । लोकप्रियता प्रामाणिकता च यादृशी पारम्परिकछन्दसामस्ति न तथा मुक्तकछन्दसाम् । निश्चप्रचत्वेन छन्दसां प्रियता कालत्रितयेऽपि योग्यतां विति । अलङ्कारशास्त्रस्याध्ययनमपि काव्यशास्त्रार्थमावश्यक

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 360