________________
जगन्नाथपण्डितस्य 'रसगङ्गाधरः', श्रीमानन्दवर्धनस्य 'ध्वन्यालोकः', श्रीजयदेवविबुधस्य 'चन्द्रालोकः', श्रीधनञ्जयनामककवेः 'दशरूपकम्', श्रीभरतसाक्षरस्य 'नाट्यशास्त्रम्', अन्यच्च श्रीलङ्कारचिन्तामरिणः, सरस्वतीकण्ठाभरणमित्यादि-महान्तोऽपि ग्रन्थाः काव्यतत्त्वानां समुचितज्ञानाय विरचिता विलसन्तितराम् ।
प्राचीनाः विद्वान्सः छन्दसां पक्षधरा आसन् । ते कथञ्चिद् व्याकरणशुद्धिमुपेक्षितवन्तः किन्तु छन्दसां भङ्गन । अस्मिन् सन्दर्भे उक्तिरियं प्रसिद्धा-'अपि माषं मषं कुर्यात् छन्दोभङ्ग न कारयेत्' । कविः शब्दानां विक्रियां कत्तमर्हति न तु छन्दसां भङ्गम् । यतो हि काव्याधारः छन्द एव । कालक्रमेण काव्यक्षेत्रऽपि परिवर्तनानि प्रारब्धानि । शनैः शनैः छन्दसां नियन्त्रणानि शिथिलानि सजातानि । हिन्दीभाषायां तु शिथिलतेयं समग्र क्रान्तिरिव परिलक्ष्यते । परिणामतो मुक्तकछन्दसां प्रवर्त्तनमभूत् । तथापि छन्दसामुपादेयता अतिरोहिता । लोकप्रियता प्रामाणिकता च यादृशी पारम्परिकछन्दसामस्ति न तथा मुक्तकछन्दसाम् । निश्चप्रचत्वेन छन्दसां प्रियता कालत्रितयेऽपि योग्यतां विति ।
अलङ्कारशास्त्रस्याध्ययनमपि काव्यशास्त्रार्थमावश्यक