________________
मास्ते । अलङ्काराणां पर्याप्तज्ञानमन्तरा काव्यशास्त्र प्रवेशो दुष्करः । शास्त्रषु वर्णितमस्ति यत् अलङ्काररहितं काव्यं विधवाङ्गनावन्न शोभते ।
कलिकालसर्वज्ञ - श्रीमद्हेमचन्द्राचार्यादिभिरनेकैविद्वत्तल्लजैरलङ्कारः काव्यशोभाकरत्वेन स्वीकृतः। काव्यरसिकोऽलङ्कारज्ञानं विना काव्यमर्म ज्ञातु नैव शक्नोति । एवमेव काव्ये गुणीभूतव्यङ्गयानां, गुणदोषविवेचनानामपि महत्त्वम् । गुणानामभावे काव्यानुभूतिः श्रेष्ठरचना च असम्भवा प्रतीयते । कस्यापि काव्यग्रन्थस्यालोचनायां विशेषतया विषयोऽयं विचार्यते । यदस्मिन् काव्ये गुणानां निर्वाहः कीदृग् वर्त्तते, रीतीनां समायोजनं विषयानुसारेण स्तरीणं विद्यते न वा ?
महाकाव्यस्य श्रेष्ठता सफलता च तस्य रसपरिपाके ध्वन्यात्मके गुणात्मके सालङ्कारत्वे च स्वरूपेऽवलम्बते । काव्यानन्दमनुभवद्भिः सहृदयैः ब्रह्मानन्दसहोदरेण साधं काव्यतत्त्वानामपि गवेषणं कृतम् । अतः साम्प्रदायिकभेदेन लाक्षणिकग्रन्थानां बाहुल्यं सजातम् । मतानां विभिन्नत्वात् सत्स्वपि विभिन्न षु लाक्षणिकग्रन्थेषु विषमेऽनेहसि काठिन्यमनुभवन्ति छात्राः । इति तु स्वीकरोमि यत् प्रौढज्ञानं तु तेषां लाक्षणिकग्रन्थानामध्ययनेनैव सम्भाव्यते
(
६
)