Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 12
________________ स्वल्पेनैव कालेन सरलेन च वाक्यजालेन काव्यशास्त्रीयलक्षणज्ञानं निर्णयात्मकस्तरगतं ग्रन्थस्यास्य पठनेन सुतरां सम्भवः सुकुमारमतीनाम् । अस्य साहित्यविषयकग्रन्थस्य सर्जने साहित्यशास्त्रस्य मौलिकानां ग्रन्थानामवलोकनं साहाय्यञ्च गृहीतमेव । तेषु 'काव्यानुशासन-काव्यप्रकाशसाहित्यदर्पण - रसगंगाधर – वृत्तरत्नाकर-छन्दोनुशासनछन्दोमञ्जरी-छन्दोरत्नमाला-अलङ्कारचिन्तामणि-साहित्यशिक्षामञ्जरीत्यादीनां' मुख्यता। ___ग्रन्थोऽयं विशेषतः स्वर्गीय-परमपूज्य-प्रातःस्मरणीयपरमगुरुदेव - शासनसम्राट् - आचार्यमहाराजाधिराजश्रीमद्विजयनेमिसूरीश्वराणां पट्टधर-शास्त्रविशारद-कविरत्नस्वर्गीय - परमपूज्याचार्यप्रवरश्रीमद्विजयामृतसूरीश्वराणां प्रशिष्यरत्न - स्वर्गीय - पण्डितप्रवराचार्य - श्रीमद्विजयधर्मधुरन्धरसूरिणा विरचितं 'साहित्यशिक्षामञ्जरीम्' अनुसृत्य रचितस्तथापि स्वकीयानुभवैः परिष्कृतः परिवद्धितः नवीनकलेवरः सैद्धान्तिकदृष्टया पदे पदे मौलिकग्रन्थान् स्मारं स्मारं प्रायः सर्वमपि काव्यशास्त्रीयसिद्धान्तजालं ग्रन्थेऽस्मिन् प्रामाणिकरूपेण प्रस्तौतु समर्थोऽभवन् । अस्य ग्रन्थस्य प्रथमपरिच्छेदे कथं कवित्वसम्प्राप्तिः? ( ११ ) --

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 360