________________
स्वल्पेनैव कालेन सरलेन च वाक्यजालेन काव्यशास्त्रीयलक्षणज्ञानं निर्णयात्मकस्तरगतं ग्रन्थस्यास्य पठनेन सुतरां सम्भवः सुकुमारमतीनाम् । अस्य साहित्यविषयकग्रन्थस्य सर्जने साहित्यशास्त्रस्य मौलिकानां ग्रन्थानामवलोकनं साहाय्यञ्च गृहीतमेव । तेषु 'काव्यानुशासन-काव्यप्रकाशसाहित्यदर्पण - रसगंगाधर – वृत्तरत्नाकर-छन्दोनुशासनछन्दोमञ्जरी-छन्दोरत्नमाला-अलङ्कारचिन्तामणि-साहित्यशिक्षामञ्जरीत्यादीनां' मुख्यता। ___ग्रन्थोऽयं विशेषतः स्वर्गीय-परमपूज्य-प्रातःस्मरणीयपरमगुरुदेव - शासनसम्राट् - आचार्यमहाराजाधिराजश्रीमद्विजयनेमिसूरीश्वराणां पट्टधर-शास्त्रविशारद-कविरत्नस्वर्गीय - परमपूज्याचार्यप्रवरश्रीमद्विजयामृतसूरीश्वराणां प्रशिष्यरत्न - स्वर्गीय - पण्डितप्रवराचार्य - श्रीमद्विजयधर्मधुरन्धरसूरिणा विरचितं 'साहित्यशिक्षामञ्जरीम्' अनुसृत्य रचितस्तथापि स्वकीयानुभवैः परिष्कृतः परिवद्धितः नवीनकलेवरः सैद्धान्तिकदृष्टया पदे पदे मौलिकग्रन्थान् स्मारं स्मारं प्रायः सर्वमपि काव्यशास्त्रीयसिद्धान्तजालं ग्रन्थेऽस्मिन् प्रामाणिकरूपेण प्रस्तौतु समर्थोऽभवन् । अस्य ग्रन्थस्य प्रथमपरिच्छेदे कथं कवित्वसम्प्राप्तिः?
( ११ ) --