Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 8
________________ 8 काव्यमाला | सां च प्रक्रियाप्रकाशकृतां पौत्रैरखिलशास्त्रमहार्णवमन्थाचलायमानमानसानामस्मद्गुरुपण्डितवीरेश्वराणां तनयैर्दूषितापि स्वमतिपरीक्षार्थं पुनरस्माभिर्निरीक्ष्यते । तत्र तावत्सार्वधातुकमपिदिति सूत्रगत कौस्तुभेइत्यादिना संख्यावद्भिरुपहसनीयमर्थं निरूपयताम्, तथाणुदित्सूत्रगत कौस्तुभे- -इत्यर्थस्य निर्णयेन विलक्षणं स्वव्युत्पत्तिपाटवमुद्गिरताम् भवतेर इति सूत्रगतमनोरमायां - - शपः प्रवृत्तिं समर्थयमानानां गुरुद्वेषदूषितमतीनां यद्यपि पुरुषायुषेणापि न शक्यन्ते गणयितुं प्रमादास्तथापि दिमात्रेण कानपि कुशाग्रीयधिषणेषु निरूपयामः ।" इत्यादि वर्तते . (१०) यमुनावर्णनम् - गद्यनिबद्धोऽयं प्रन्थो नाद्याप्युपलब्धः. रसगङ्गाधर उदाहृतानि द्वित्राणि गद्यान्यस्य समुपलभ्यन्ते. (११) लक्ष्मीलहरी - काव्यमालायां मुद्रितैव. (१२) सुधालहरी - काव्यमालायां मुद्रितैव. (१३) रसगङ्गाधरः - अयं पण्डितजगन्नाथस्य मुख्यो ग्रन्थः, किंतु सर्वत्रा - समाप्त एव लभ्यते. अद्यावधि दृष्टेष्वस्माभिर्नवसु पुस्तकेष्वेकमप्युत्तरालंकारप्रकरणं नातिक्रामति. पण्डितराजात्खल्पकालानन्तरं समुत्पन्नेन नागेशभट्टेनाप्ययं ग्रन्थ उत्त रालंकारप्रकरणान्तमेव प्राप्तः, यतस्तत्प्रणीता रसगङ्गाधरटी काप्युत्तरालंकारप्रकरणपर्यन्तमेबास्ति. अतः पञ्चाननात्मकः संपूर्णोऽयं ग्रन्थः कदाचिदुपलप्स्यत इति दुराशामात्रम्. ग्रन्थसमाप्तिं कर्तुमपारयन्मध्य एव पण्डितराजः परलोकं गत इत्यपि वक्तुं न युज्यते. यतश्चित्रमीमांसाखण्डनमनेन रसगङ्गाधरानन्तरं प्रतीतमिति तत्प्रारंम्मे स्फुटमस्ति. केवलमेतावदनुमीयते - अप्पयदीक्षित द्वेषेण चित्रमीमांसानुकरणप्रवृत्तः पण्डितराजोऽपि स्वग्रन्थं चित्रैमीमांसावदसमाप्तमेव स्थापितवान् चित्रमीमांसा तु बुद्धिपूर्वमेवाप्पदीक्षितेन समाप्तिं न नीतेति तत्समाप्तिस्थश्लोकतो ज्ञायते . एवं त्रयोदशग्रन्थाः पण्डितराजप्रणीता ज्ञायन्ते शशिसेना, पण्डितराजशतकं चेत्यन्यदपि ग्रन्थद्वयं पण्डितराजप्रणीतमस्तीति कैश्चिदुच्यते. (१) अश्वघाटी-रतिमन्मथ- वसुमतीपरिणयकर्ता तऔरनगरवासी जगन्नाथः, (२) १. मनोरमा २. पुस्तकपञ्चकमस्माभिः साक्षाद्दृष्टम्, पुस्तकचतुष्टयस्य त्वन्तिमा पङ्किरस्मन्मित्रैः काश्यादि नगरेभ्यो लिखिला प्रहिता दृष्टा ३. 'नामंनामं घनश्यामं धाम तामरसेक्षणम् । पण्डितेन्द्रो जगन्नाथशर्मा निर्माति कौतुकम् ॥', 'रसगङ्गाधरे चित्रमीमांसाया मयोदिताः । ये दोषास्तेऽत्र संक्षिप्य कथ्यन्ते विदुषां मुदे ॥', 'सूक्ष्मं विभाव्य मयका समुदीरितानामप्पय्यदीक्षित कृताविह दूषणानाम् । निर्मत्सरो यदि समुद्धरणं विदध्यादस्याहमुज्वलमतेश्चरणौ वहामि ॥' इति चित्रमीमांसाखण्डनप्रारम्भश्लोकाः. ४. ‘अप्यर्धचित्रमीमांसा न मुदे कस्य मांसला । अनूरुरिव तीक्ष्णांशोरर्धेन्दुरिव धूर्जटेः ॥' अयं चित्रमीमांसासमाप्तौ श्लोक. ५. काव्यमालाया द्वितीयेऽङ्के प्राणाभरणप्रारम्भटिप्पणेऽश्व घाटी रतिमन्मथं वसुमतीपरिणयं चेति ग्रन्थत्रयं पण्डित - राजप्रणीतग्रन्थनाममालायां भ्रमेण लिखितमासीदिति ज्ञेयम्.

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 552