Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text
________________
काव्यमाला।
रसगङ्गाधरनामा संदर्भोऽयं चिरं जयतु ।
किं च कुलानि कवीनां निसर्गसम्यञ्चि रञ्जयतु ॥ तत्र कीर्तिपरमाह्लादगुरुराजदेवताप्रसादाद्यनेकप्रयोजनकस्य काव्यस्य व्युत्पत्तेः कविसहृदययोरावश्यकतया गुणालंकारादिभिर्निरूपणीये तस्मिन्विशेष्यतावच्छेदकं तदितरभेदबुद्धौ साधनं च तल्लक्षणं तावन्निरूप्यते
रमणीयार्थप्रतिपादकः शब्दः काव्यम् ॥ रमणीयता च लोकोत्तराहादजनकज्ञानगोचरता । लोकोत्तरत्वं चाहादगतश्चमत्कारत्वापरपर्यायोऽनुभवसाक्षिको जातिविशेषः । कारणं च तदवच्छिन्ने भावनाविशेषः पुनःपुनरनुसंधानात्मा । 'पुत्रस्ते जातः', 'धनं ते दास्यामि' इति वाक्यार्थधीजन्यस्याहादस्य न लोकोत्तरत्वम् । अतो न तस्मिन्वाक्ये काव्यत्वप्रसक्तिः । इत्थं च चमत्कारजनकभावनाविषयार्थ
प्रार्थयते-रसेति । अयं बुद्धिस्थः संदर्भः पञ्चाङ्गकं वाक्यं चिरं चिरकालं जयतु सर्वोत्कर्षेण वर्तताम् । किं च स एव निसर्गसम्यञ्चि खभावरमणीयानि । एतेन कृत्रिमरमणीयनिरासः । कवीनां कुलानि वंशान्समूहान्वा रञ्जयत्वनुरक्तान्करोतु ॥
तत्र करणीये ग्रन्थे । परमाह्लादो विगलितवेद्यान्तरानन्दः । आदिना द्रव्यलाभादिः । कविः काव्यकर्ता । सहृदयस्तदनुभववान् । कवेरनुभवश्चेत्सहृदयत्वेनैव न तु कवित्वेन । गुणेति । विशेषणैरित्यर्थः । आदिना रसादिपरिग्रहः । तस्मिन्काव्ये । निष्ठत्वं सप्तम्यर्थः । तस्य विशेष्यतायामन्वयः। तल्लक्षणं काव्यलक्षणम् । इष्टतावच्छेदकं च तदेव । तत्प्रकारकज्ञानस्य प्रवर्तकत्वादिति बोध्यम् । तावदादौ । रमणीयेति । कटाक्षादिवारणाय शब्द इति व्यङ्ग्यादिसंग्रहाय वाचक इत्यनुक्त्वा प्रतिपादक इत्युक्तम् । रमणीयशब्दप्रतिपादके व्याकरणादिरूपेऽतिव्याप्तिवारणायार्थेति । 'घटमानय' इत्यादिवाक्यवारणाय रमणीयेति । ननु रमणीयस्याननुगतत्वात्तत्रापि तत्त्वमस्त्येवेत्यत आह-रमणीयता चेति । ननु लोकोत्तरत्वं यथाकथंचिच्चेदुक्तदोषः, आत्यन्तिकं चेद्ब्रह्मानन्द एवात आह-लोकोत्तरत्वं चेति । अनुभवसाक्षिक इत्यनेन तदन्यप्रमाणनिरासः। स चानुभवः सहृदयानामेव । एवं च नोक्तदोष इति भावः । ज्ञानं च भावनारूपमेव नान्यदित्याह-कारणं चेति । तदवच्छिन्ने चमत्कारत्वापरपर्यायलोकोत्तरत्वरूपजात्यवच्छिन्ने । विशेषो न तु सामान्यम् । अत एव तत्स्वरूपमाह-पुनरिति । लोकोत्तरेति विशेषणकृत्यमाह-पुत्रस्ते इत्यादि । अत्र वाक्यार्थद्वयम् । तथा सति परिष्कृतं लक्षणमाह-इत्थं चेति । उक्तार्थसिद्धौ चेत्यर्थः । फलितमित्यत्रान्वयः । यत्किंचि

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 552