Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 12
________________ काव्यमाला। 'पण्डितराजजगन्नाथकृतो रसगङ्गाधरः सखरमेव प्रसिद्धि प्रापणीयः' इति नानादेशवासिभिर्बहुभिमित्रैः प्रोत्साहिताः, विशेषतश्च मान्यवर्यभाण्डारकरोपाहरांमकृष्णशर्मभिर्विद्वन्मूर्धरः समादिष्टा वयं काव्यमालायामेतन्मुद्रणे प्रवृत्ताः स्मः. तत्रास्मन्मुद्रणाधारभूतानि पुस्तकान्येतानि सन्ति १ जयपुरीयराजगुरुपर्वणीकरनारायणभट्टानां मूलमात्रमुत्तरालंकारप्रकरणान्तं नाति शुद्धम्. २ जयपुरीयराजगुरुभट्टलक्ष्मीदत्तसूनुभश्रीदत्तानां तादृशमेव. ३ जयपुरीयराजगुरुकथाभट्टचन्द्रेश्वराणां मूलमात्रमप्रस्तुतप्रशंसाप्रकरणान्तमशुद्धमेव प्रायः. - ४ पूर्वोक्तविशेषणविशिष्टनारायणभट्टैरेव ग्वाहेरनगरादानायितं मूलमात्रमपहृतिप्र. करणान्तं प्रायः शुद्धम्. ५ जयपुरीयजैनपाठशालाप्रधानाध्यापकद्रविडकाशीनाथशास्त्रिणां टीकामात्रं प्रायः ६ पूर्वोक्त विशेषणविशिष्टभट्टश्रीदत्तानां टिप्पणमात्र शुद्धमेव. अत्र मूलपुस्तकचतुष्टयेऽप्यशुद्धतामपहाय प्रायो नास्ति पाठमेदः. अत एव पाठान्तरप्रदर्शनाय न यतितम्, विहिते चानेकपुस्तकावलम्बेनापि मुद्रणे मानुष्यसुलभात्प्रमादाद्वघुत्पत्तिशैथिल्यादक्षरयोजकादिदोषाद्वा संजाता क्वचित्कचिदशुद्धतेति स्थूलदृष्ट्या मूलप्रन्थशोधनपत्रं विधाय ग्रन्थान्ते निहितम्. अतस्तत्साहाय्येन प्रथमं प्रन्थशोधनं कृत्वा विद्वद्भिः पठनपाठनादि विधेयमस्य ग्रन्यस्येति शिवम्. १. एतट्टिप्पणं तु केनचिन्नागेशकृतरसगङ्गाधरटीकात एव समुद्धतम्. २. टीकाया एकमेव पुस्तकं समुपलब्धमिति बहुषु स्थलेषु संदेहो वर्तते. अत एव टीकायाः शोधनपत्रमपि कर्तुं न पारितम्.

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 552