Book Title: Ranbhumish Vansh Prakash
Author(s): Kalyankirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 3
________________ 46 अनुसंधान-२५ विदलितकलिकालः कालभोजश्चरित्रै-५ रजनि रजनिजानिस्पद्धिद्धिष्णुकीतिः ॥४॥ तदनु भर्तृभटः ६ सुभगा(टा?)ग्रणीः प्रकटति घटितो(ता)हवपाटवः । स्वस(म)हसा सहसा सह सिंहवत् समुदियाय ततोऽप्यरिसिंहक:७||५|| य(ज)ज्ञे महायक ८ इति क्षितिनायकोऽस्मात् विश्वत्रयेऽस्खलितसायक एकवीरः । राजीसुतस्तदनु ९ हेमतुलाधिरोहैः खुम्माण एष भरतेऽप्यकरोत् सुराद्रिम् ॥६।। अस्मास्ट:१० क्षितिपति नरवाहनो ११ऽस्माच्छक्त्या कुमार इव शक्तिकुमारनामा १२ । स्यान्मेदनीपतिरत: १३ पुरतोऽपि] कीर्तिब्रह्मा १४ नृपस्तदनु भूपतियोगराजः १५ ॥७॥ पट्टेऽस्य वैरटनृपोऽस्य १६ तु वंशपालः क्ष्मापालभालतिलकार्चितपादपीठः १७ । श्रीवैरसिंह इति वैरिकरीन्द्रसिंहः १८ खुम्माण नाम निदधे विशदैश्चरित्रैः ॥८॥ श्रीवीरसिंहा१९दुदितोऽरिसिंहः २० श्रीचंदसिंहश्च२१ ततः प्रचण्डः । जात: क्रमाद् विक्रमसिंहभूमान्२२ सान्वर्थनामा रणसिंहकोऽस्मात्३९॥ श्रीक्षेमसिंह २४ संपतसिंहौ २५ च ततः कुमारसिंहाख्यः २६ । मन्मथसिंहः २७ पद्मात् सिंहः २८ श्रीजैत्रसिंहोऽस्मात् २९ ॥१०॥ तेजस्विसिंहः ३० समरादिसिंहः ३१ तत्पट्टरत्नं भुवि निःसपत्नः । अल्लावदीनाह्वयपातिसाहेजेता ततः कीर्तिकसिंहराजः ३२ ॥११॥ अत्र पाठान्तरे नामानि पुनरेवम् - खुम्माणः क्षितिभृत् स बप्पतनयः २ प्राज्यैर्यशोभिर्जगद्भूषाहेतुरभूत् ततः प्रसृमरैः पूषा स्वतेजोभरैः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17