Book Title: Ranbhumish Vansh Prakash
Author(s): Kalyankirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 5
________________ 48 तत्पट्टे नरसिंहनामनृपति: २ सिंहस्फ ( स्फु) रद्विक्रमो दृष्यद्दानववारदारणविधेः सान्वर्थनामस्थितिः । अद्याऽप्यस्य घनप्रतापदहनोत्तापात्सहस्रद्युतिम(र्म)न्ये व्योमनदीतटीपरिसरे पर्यट्य यात्यम्बुधिम् ॥२१॥ देवकर्ण ३ - नरसिंहभूपती ४ राजपालनृप ५ - नागपालकौ । पुण्यपाल ७ - पृथिवीपती ८ नृपौ रेजतुर्जगति विस्फुरत्कृपौ ||२२|| तदनु भुवनसिंहो ९ भीमसिंहः १० क्षितीन्द्रस्तदनु स जयसिंहः ११ क्ष्मापतिः स्फारतेजाः । अजयदमररूपां स्वर्धुनीं यः पवित्रैः निजचरितविलासैर्दाननीरैस्तथाऽन्याम् ॥२३॥ तदनुजस्तदनु क्षितिवासवः समभवत् किल लक्ष्मणसिंहराट् १२ । भुवनशादरिसिंहनृपस्ततः १३ सुकृतसंस्कृतिसत्कृतसत्कृतः ||२४|| हम्मीरसिंहः १४ क्षितिपोऽस्य पट्टे श्रीक्षेत्रसिंहो१५ऽस्य तु लक्षसिंहः १६ तत्पट्टपूर्वाद्रिसहस्ररश्मि-र्जज्ञे नृपो मोकलसिंहनामा १७ ॥ २५ ॥ येन स्वर्णतुलाधिरोहणविधेरन्यः सुवर्णाचल [:] चक्रेऽनन्यसमानदानममलैर्नव्य[:] सरस्वानपि । अनुसंधान-२५ कीर्तिर्यस्य नवा सरिद्दिविषदां त्रैलोक्यपावित्र्यकृत् नव्यां सृष्टिममार्गणां स विदधज्जज्ञे विधिनू (नू) तनः ||२६|| यस्य प्रोद्धतगन्धसिन्धुरघटाकुम्भेषु दिग्भित्तिषु व्यावृद्धेषु सरागनागजभराभ्यङ्गा बभुः शाश्वताः । लक्ष्मीणां दशदिग्भुवां परिणये राज्ञेऽस्य किं कौकमा : (कौङ्कुमा:) हस्तास्तेयप्रताप तरणे: (?) सार्वत्रिका रश्मयः ॥२७॥ यस्योद्दामतरप्रतापतरणेस्तापादिव व्याकुलाश्छायामण्डलमातपत्रजनितं सर्वे नृपाः शिश्रियुः । इन्द्रप्रस्थपतिर्भिया स्थपतिवत् काष्ठस्थितिदु (दु)र्गतस्तस्थौ शेषतयैष मुण्डितशिराः प्रस्थं न चेत् किं भजेत् ? ॥२८॥ Jain Education International —— For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17