Page #1
--------------------------------------------------------------------------
________________
श्रीराणभूमीशवंशप्रकाशः
सं. मुनि कल्याणकीर्तिविजय
'श्रीराणभूमीशवंशप्रकाश' ए महोपाध्याय श्रीमेघविजयजी म.नो एक नवीन अने अद्यावधि अज्ञात-अप्रकट ग्रन्थ छे. आ ग्रन्थमां राणभूमि अर्थात् राजस्थाननी-राणाओनी भूमिना राजाओनी वंश-परंपरानी वीगत छे. जेमां एकलिंग-महादेव पासेथी वरदान पामेल बप्प नामक महाराणाथी प्रारंभी महाराणा राजसिंह (प्राय: कविना समकालीन) सुधीना राणाओनां वंशपरंपरागत नामोनी अनुक्रमे वीगत आपेली छे.
प्रथम ११ श्लोकोमा राजा बप्पथी लई बादशाह अल्लाउद्दीनने जीतनारा कीर्तिकसिंहराज सुधीना ३२ राणाओनां नाम छे. त्यारबाद १२ थी १८ श्लोकमां, पाठान्तरे प्राप्त थएला, बप्प थी मांडी कर्णसिंह सुधीना २६ राजाओनां नाम वर्णव्यां छे.
ते पछी, अहीं वच्चे बीजा पण घणा प्रबळ राजाओ थया, पण तेमनां नामो बीजा पुस्तकोमाथी जाणी लेवां, एवो हवालो आपे छे.
तदनन्तर, १९ थी ५४ श्लोकोमां, जेनाथी राजाओनी राणा एवी ख्याति थई एवा राहप राजाथी प्रारंभी राजसिंह सुधीना २६ महाराणाओनां नाम-वर्णन करे छे. जेमां कुम्भलमेरु तथा राणपुर (राणकपुर)मां जेमणे जिनप्रासादोनुं निर्माण कराव्युं हतुं तेवा कुम्भकर्ण राजा, उदयपुर वसावनार राणा उदयसिंह, बादशाह अकबर तथा तेना मोगलसैन्यने हंफावनार महापराक्रमी राणा प्रताय, विधर्मीओ पासेथी राणपुर व. तीर्थो जैनोने पाछा अपावनार तेमज तत्कालीन तपगच्छपति आ.श्री विजयदेवसूरि म.नी प्रेरणा तथा उपदेशथी तीर्थयात्रानो वेरो माफ करनार अने पिच्छिल्ल तेमज उदयसागर सरोवरमांथी माछलां पकडवानो प्रतिबन्ध करनार महाराणा जगत्सिह; तथा छेल्ले तेमनी पाटे आवेला, अत्यंत पराक्रमथी दिल्लीपतिने पण पराजय आपनार महाराणा राजसिंह व.नु अत्यन्त सुन्दर तेमज रसळतुं वर्णन छे.
छेल्ले, राजाओनी गणना-नाम व. मां घणा पाठो होवाथी, तेमज
Page #2
--------------------------------------------------------------------------
________________
September-2003
45
राजाओ पण असंख्य थई गया होवाथी क्यांक नाम-पाठ व. मां परावृत्ति थई जाय तो विद्वानोए व्यामोह न करवो एम जणाव्युं छे.
आ प्रतिनुं लेखन सं. १९५०ना बीजा आषाढ मासना कृष्णपक्षनी सातमे-गुरुवारे अजमेर-दुर्गमां मुनि मोहनविजयजीए करेल छे तेवू प्रतिनी प्रान्ते लखेल पुष्पिकाथी जणाय छे.
प्रति उदयपुरना हाथीपोळ-सराय भंडारनी छे. तेमां कुल पत्रो-३ आखा तेमज एक अडधुं-एम चार छे. अक्षरो सुन्दर तथा स्वच्छ छे. बेत्रण स्थळे रहेली नानकडी त्रुटिने बाद करतां लखाण शुद्ध छे. आ प्रतिनी जेरोक्स नकल पू.मुनि श्रीधुरन्धरविजयजी म. द्वारा सांपडेल छे.
॥ अथ श्रीराणभूमीशवंशप्रकाशः ।। ॥ अहम् ॥
जयति विजयलक्ष्मीवासवेस्मा(वेश्मा)भिरामः प्रथितविपुलकीर्तिस्तेजसांराशिरूप: । जलधिरिव विशालश्चारुभूपालरत्नप्रभवभुवनसेव्यो राणभूमीशवंशः ॥१||
इह महति महीयानन्वयेऽभूत् स भूमान् विदितसकलविद्यो बप्पनामाऽनवद्यः । । । अलभत जगदीशादेकलिङ्गाद् वरं यः प्रतिदिनमतिभक्त्या शुद्धसाम्राज्यसिद्धेः ॥२॥ तदनु दनुजहर्ता भूमिभर्ता गुहोऽभूद् १ गुहिल इति नरेशो २ जाग्रदुग्रप्रभावः ॥ अजनि जनितपुण्य: पुण्यनैपुण्यशाली तदनु बहुमहोमिर्भोजभूपो३ऽशुमाली ॥३॥ विशदसुकृतशीलः शीलदेवो मनस्वी ४ तदनु मनुजराजो राजराजोपमोऽभूत् ।
Page #3
--------------------------------------------------------------------------
________________
46
अनुसंधान-२५ विदलितकलिकालः कालभोजश्चरित्रै-५ रजनि रजनिजानिस्पद्धिद्धिष्णुकीतिः ॥४॥ तदनु भर्तृभटः ६ सुभगा(टा?)ग्रणीः प्रकटति घटितो(ता)हवपाटवः । स्वस(म)हसा सहसा सह सिंहवत् समुदियाय ततोऽप्यरिसिंहक:७||५|| य(ज)ज्ञे महायक ८ इति क्षितिनायकोऽस्मात् विश्वत्रयेऽस्खलितसायक एकवीरः । राजीसुतस्तदनु ९ हेमतुलाधिरोहैः खुम्माण एष भरतेऽप्यकरोत् सुराद्रिम् ॥६।। अस्मास्ट:१० क्षितिपति नरवाहनो ११ऽस्माच्छक्त्या कुमार इव शक्तिकुमारनामा १२ । स्यान्मेदनीपतिरत: १३ पुरतोऽपि] कीर्तिब्रह्मा १४ नृपस्तदनु भूपतियोगराजः १५ ॥७॥ पट्टेऽस्य वैरटनृपोऽस्य १६ तु वंशपालः क्ष्मापालभालतिलकार्चितपादपीठः १७ । श्रीवैरसिंह इति वैरिकरीन्द्रसिंहः १८ खुम्माण नाम निदधे विशदैश्चरित्रैः ॥८॥ श्रीवीरसिंहा१९दुदितोऽरिसिंहः २० श्रीचंदसिंहश्च२१ ततः प्रचण्डः । जात: क्रमाद् विक्रमसिंहभूमान्२२ सान्वर्थनामा रणसिंहकोऽस्मात्३९॥ श्रीक्षेमसिंह २४ संपतसिंहौ २५ च ततः कुमारसिंहाख्यः २६ । मन्मथसिंहः २७ पद्मात् सिंहः २८ श्रीजैत्रसिंहोऽस्मात् २९ ॥१०॥ तेजस्विसिंहः ३० समरादिसिंहः ३१ तत्पट्टरत्नं भुवि निःसपत्नः । अल्लावदीनाह्वयपातिसाहेजेता ततः कीर्तिकसिंहराजः ३२ ॥११॥
अत्र पाठान्तरे नामानि पुनरेवम् - खुम्माणः क्षितिभृत् स बप्पतनयः २ प्राज्यैर्यशोभिर्जगद्भूषाहेतुरभूत् ततः प्रसृमरैः पूषा स्वतेजोभरैः ।
Page #4
--------------------------------------------------------------------------
________________
September-2003
पाणौ यः सततं कृपाणललितैर्ज्योतिर्गणं भीषयांचक्रेऽद्यापि ततः क्षणं न वियति व्यालम्बते यं भिया ॥१२॥
गोविन्दो ३ नृपतिस्ततो गजवटागण्डस्थलान्निर्झरद् दानाम्भोभिरिदं भुवस्तलमलङ्कृत्वा सदा पङ्किलम् । म्लेच्छाधीशशिरस्सु भूमिलुठितेषु (षू)न्निद्रदूर्वाङ्करश्रेण कूर्चकचच्छलेन नितरामुद्भावयामास यः ॥१३॥
महेन्द्र ४ मुख्यास्तदनु क्षितीन्द्रा जाताः क्रमाद्राजकुलेषु चन्द्राः । व्यावर्णितैस्तच्चरितप्रपञ्चै-रालिख्य पूर्वेत नभोविभागः ॥ १४॥
ते चाऽमी
आलूनसिंहञ्च५ ततोऽपि सिंहः ६ शक्ते (क्ति: ) कुमारो ७ऽप्यथ शालिवाहः ८ ।
ततो नृपः श्रीनरवाहनाख्यः ९ ततोऽम्बिकादाश १० इति क्षितीशः ॥ १५ ॥
47
ब्रह्माऽथ११ नरब्रह्मो १२ - त्तमराजो १३ ऽभूत् ततोऽपि कर्णाख्यः १४ । श्रीभद्रसेन १५ - गोपति १६ - हंसनृपा १७ योगराजेशः १८ ॥१६॥ श्रीवैरसिंह १९ - वीरौ २० समराद् २१ रत्नात् २२ ततो [ ऽपि] सिंहाख्यौ । शरपञ्जर २३ - नवखण्डौ २४ नवखण्डाखण्डविदिताज्ञौ ॥१७॥ कुरुमेरु २५ - जैत्रसिंहो २६ श्रीकर्णसमस्ततोऽपि कर्णपति: २७ | इत्याद्या भूमिभुजो भुजौजसा विजितसुरराजाः ॥१८॥
अत्रान्तरे प्रबला राजानोऽन्येऽपि बभूवुस्ते पुस्तकान्तराद् ज्ञेयाः । राहपः १ क्षितिपतिः स महौजाः शत्रुराहुदलने हरिबाहुः || तत्र दुग्धजलधाविव जातः पारिजातशिखरी ह्यवदातः ॥१९॥ यस्मात् सम्प्रति भूतले विजयिनी राणेति भूमीभूजां ख्याति[:]स्फातिमुपैति चारुचरितैर्गङ्गेव वारां भरैः । यस्याऽद्यापि यशः सितोत्पलमिदं कर्णावतंसायते सर्वेषां दशदिग्वधूप्रणयिनामामोदमेदस्वलम् ॥२०॥
Page #5
--------------------------------------------------------------------------
________________
48
तत्पट्टे नरसिंहनामनृपति: २ सिंहस्फ ( स्फु) रद्विक्रमो दृष्यद्दानववारदारणविधेः सान्वर्थनामस्थितिः । अद्याऽप्यस्य घनप्रतापदहनोत्तापात्सहस्रद्युतिम(र्म)न्ये व्योमनदीतटीपरिसरे पर्यट्य यात्यम्बुधिम् ॥२१॥
देवकर्ण ३ - नरसिंहभूपती ४ राजपालनृप ५ - नागपालकौ । पुण्यपाल ७ - पृथिवीपती ८ नृपौ रेजतुर्जगति विस्फुरत्कृपौ ||२२||
तदनु भुवनसिंहो ९ भीमसिंहः १० क्षितीन्द्रस्तदनु स जयसिंहः ११ क्ष्मापतिः स्फारतेजाः । अजयदमररूपां स्वर्धुनीं यः पवित्रैः निजचरितविलासैर्दाननीरैस्तथाऽन्याम् ॥२३॥
तदनुजस्तदनु क्षितिवासवः समभवत् किल लक्ष्मणसिंहराट् १२ । भुवनशादरिसिंहनृपस्ततः १३ सुकृतसंस्कृतिसत्कृतसत्कृतः ||२४|| हम्मीरसिंहः १४ क्षितिपोऽस्य पट्टे श्रीक्षेत्रसिंहो१५ऽस्य तु लक्षसिंहः १६ तत्पट्टपूर्वाद्रिसहस्ररश्मि-र्जज्ञे नृपो मोकलसिंहनामा १७ ॥ २५ ॥
येन स्वर्णतुलाधिरोहणविधेरन्यः सुवर्णाचल [:] चक्रेऽनन्यसमानदानममलैर्नव्य[:] सरस्वानपि ।
अनुसंधान-२५
कीर्तिर्यस्य नवा सरिद्दिविषदां त्रैलोक्यपावित्र्यकृत् नव्यां सृष्टिममार्गणां स विदधज्जज्ञे विधिनू (नू) तनः ||२६||
यस्य प्रोद्धतगन्धसिन्धुरघटाकुम्भेषु दिग्भित्तिषु व्यावृद्धेषु सरागनागजभराभ्यङ्गा बभुः शाश्वताः । लक्ष्मीणां दशदिग्भुवां परिणये राज्ञेऽस्य किं कौकमा : (कौङ्कुमा:) हस्तास्तेयप्रताप तरणे: (?) सार्वत्रिका रश्मयः ॥२७॥ यस्योद्दामतरप्रतापतरणेस्तापादिव व्याकुलाश्छायामण्डलमातपत्रजनितं सर्वे नृपाः शिश्रियुः । इन्द्रप्रस्थपतिर्भिया स्थपतिवत् काष्ठस्थितिदु (दु)र्गतस्तस्थौ शेषतयैष मुण्डितशिराः प्रस्थं न चेत् किं भजेत् ? ॥२८॥
——
Page #6
--------------------------------------------------------------------------
________________
September-2003
यस्याऽऽदेशवशंवदा मरुधरा [:]श्रीगूर्जरत्रा बृहद्बुन्दी-नागपुराजमेरु-सरसावन्तीश्वराद्या नृपाः । चकी शकपराक्रमः कलियुगेऽप्यासीदसीमावनीजम्भारातिरदम्भसम्भवरतिः श्रीकुम्भकर्णस्ततः१८ ॥२९॥ साम्राज्ये नयति स्वयं रसमयं पुष्णात्यनुष्णैः परं गोभिः शोभितमण्डलैः कृतयुगं पीयूषरश्मेरिव । तस्याऽऽसीद् द्विजगोधने कुवलये स्फातिस्तथाऽत्यद्भुता नक्षत्रप्रवरे वणिग्जनगणेऽप्याविर्बभूवुः श्रियः ॥३०॥ प्रासादा व्यवहारिभिर्भगवतां निर्मापिताश्चाऽऽर्हतां श्रीमत्कुम्भलमेरु-राणपुरयोर्यस्य प्रसादोदयात् । तेषां मूर्धनि साम्प्रतं विजयिनी कीर्तिर्नरीनृत्यते तस्य श्रीधरणीधवस्य मधुरा धौतध्वजव्याजतः ॥३१॥ चैत्यार्थं वृषभप्रभोर्भगवातो)दत्ते स्म चित्ते शुचिः श्रीमद्राणपुरे स राणसविता क्षेत्रद्वयं शासने । काश्मीरस्य च टङ्ककं प्रतिदिनं स्वीयं जिना कृते तेनाऽस्य त्रिदिवे सुरैरपि यश:सौरभ्यमभ्यस्यते ॥३२।। बभूव भूवल्लभसेव्यपादस्तत्सूनुरन्यूनपराक्रमश्रीः । श्रीराममल्लः १९ प्रतिमल्लरूपो म्लेच्छेशदोर्दण्डविखण्डनाय ॥३४(३३)।। तत्पट्टे स्पष्टकान्तिर्विशदतरगुणग्रामसङ्ग्रामसिंहः २० प्रत्यर्थिक्षमापकुम्भिप्रहतगलदसृग्-वाहसोत्साहसिंहः । आकण्ठं यस्य खड्गासमयमभगिनीनीरपूरे निमग्नः सोत्कण्ठं शत्रुरुच्चैरमरमृगदृशालिङ्गिते कण्ठपीठे ॥३५(३४)।। समुदियाय ततोऽभ्युदयं वहन्नुदयसिंहमहीहृदयेश्वरः २१ । सहृदये हृदयं सदयं वदत् समुदये द्विषतां तु तदन्यथा १३६(३५)। तेन स्तेनहता कृता वसुमती स्वर्णादिभिः संस्कृता चातुर्वर्ण्यमिहोत्तमर्णमभवत् सज्जातरूपश्रिया ।
Page #7
--------------------------------------------------------------------------
________________
50
अनुसंधान-२५ येनैवोदयनाम-चारुनगरं संवासितं वासव(वासवे ?)इन्द्रस्य(नेन्द्रस्य ?)स्मयहारिचारुभगवद्भूयोविहारश्रिया ॥३७(३६)। तत्पट्टस्पष्टपूर्वाशिखरिदिनकरश्वारुचाप: प्रतापः २२ माप: सन्तापकारी यवनजनपतेर्भानुभास्वत्प्रतापः ॥ दत्तानन्दाः]प्रजानामजनि सुरजनीगीयमान(ना)समानश्लोकालोकात् त्रिलोकी स खलु धवलयन् वीरकोटीरहीरः ।।३८(३७)। दानवाविनयदुर्नयजल्पं भूम्यजन्यपटलं विनिनीषुः । श्रीसहस्रनयनो ह्यवतीर्णो मूत्तिमानमरसिंहनृपो २३ऽस्मात् ॥३९(३८)। सौन्दर्यं च तदेव देवभवजं शौर्यं तदेवोजितं दानादेरवदानताऽप्युपनता पूर्वैव सर्वोत्तमा । तेजः सातिशयं विपक्षविषयव्याक्षोभदक्षाशयं तत्र त्रासितशात्रवे समभावाद् भूमीपतौ भासुरे ॥४९(३९)॥ तदीयपट्टेऽजनि कर्णसिंहः २४ सकर्णवर्णैरभिवर्णनीयः । रात्रिन्दिवं यस्त्रिदिवं पुपोष स्तोमप्रकाशैरसुरप्रणाशैः ॥४१(४०)।। यद्विध्वस्तसमस्तदानववपुगतस्थले धूलिभिश्छन्ने पुष्टतयैव यौवनभराद् भूभामिनी निर्भयम् । सौभाग्येन च यत्प्रभावविभवैर्वासोवसानारुणं छेकानेकविवेकमेकनृपति भेजे तमेवोच्चकैः ॥४२(४१)।। तत्पट्टस्वर्णशैले त्रिदशतरुसमः श्रीजगत्सिंहभूपः २५ साम्राज्यं प्राज्यतेजा विनयनयरुचिर्भुक्तवान् व्यक्तशक्तिः । यस्योद्दामप्रतापच्चलनपरिललज्ज्वालयाऽस्तोदयादि सम्पत्तौ तेन सूर्यस्तुहिनरुचिरपि श्राम्यतो नो चिरेण ॥४३(४२)।। येन स्वर्णतुलाविलासललितैर्वोत्तमश्रिया स्वर्णं सर्वमखर्वराशिमिलितं दत्तं द्विजेभ्यो भुवि । स्वर्णाद्रि(दि)प्रमदाददास्यत रयात् सोऽयं न चेत् खेचरैरभ्यर्थे(W)न्द्रपुरोहितप्रभृतिभिः स्वार्थं समाधास्यत ॥४४(४३)।
Page #8
--------------------------------------------------------------------------
________________
September-2003
51
यद् यद् राणपुरादितीर्थनियतं राणैः पुराणैः पुरा दत्तं शासनमासधीसखपदैलृप्तं च तल्लुम्पकैः ।। सर्वं धर्मधुरन्धुरोद्ध(धुरन्धरोद्धर)धिया प्रादाद् धराधीश्वरो वंशाकाशविभाविभाकररुचिः श्रीमान् जगत्सिहजः ॥४५(४४)। आघाटे नरसिंहभूमिपतिना पूर्वं तपस्तप्यतो दत्तं यस्य सदावदातविरुदं श्रीमत्तपेत्याख्यया । सूरिः श्रीजगदादिचन्द्रभगवान् निर्विक्रियः सत्कियोद्धारेणोद्धरणं चकार चरणाचारैर्जगत्याश्चिरम् ॥४६(४५)।। एतत्पट्टपरम्पराप्रणयिनीभालस्थलालङ्कृतेः सूरिश्रीविजयादिदेवसुगुरोर्धर्मोपदेशादसौ । राणः श्रीवरकांण-राणकपुरश्रीतीर्थयात्रार्थिनां सङ्घस्याऽनघचेतसा सममुचत् शुल्कानि शुक्लाशयः ॥४७(४६)। पिच्छिल्लोदयसागराख्यसरसोनीरे गभीरे सदा जालक्षेपनिषेधमादिशदसौ कारुण्यमुज्जीवयन् । तेनैतत्सरसोस्तटे पटुतरा डिण्डीरपिण्डच्छलात् कीर्तिःस्फूतिमियति सम्प्रति जगत्सिंहाख्यराणप्रभोः ॥४८(४७)। प्रतिशरत् शरदिन्तु(दिन्दु)यशारसाद् व्यरचयज्जिनपूजनमञ्जसा ! तपगणाधिपतेरुपदेशत-स्तरणिभासुरराणशिरोमणिः ॥४९(४८)।। धर्मस्योन्नतये स धर्मतनयः श्लोकप्रकाशेऽर्जुनो भीमो दुर्धरवैरिवारणघटाकुम्भस्थलस्फेटने । . साम्राज्यं समबूभुजत् स सुचिरं विश्वप्रजारञ्जनो राणश्रेणिनभोमणिः सुकृतकृत् श्रीमान् जगत्सिहराट् ॥५०(४९)। तत्पट्टभूषामणिरामणीयक: श्रीराजसिंहप्रभुरद्भुतप्रभः २६। जेजीयतेऽयं विजयश्रियान्वितः श्रीराणसूर्यो महसा महीयसा ॥५१(५०)। गन्धसिन्धुर इवोद्धरौजसा म्लेच्छराजविटपिव्रजानहो । मूलतोऽयमुदमूलयत् ततः कूर्चमेघु सुखकन्दमूलिकाः ॥५२(५१)।।
Page #9
--------------------------------------------------------------------------
________________
52
अनुसंधान-२५
श्रुत्वाऽस्य प्रथमप्रयाणपटहं दिग्दन्तिनः कम्पिताः सुत्रामाऽपि समापिताखिलविधि-स्त्रासादिवोत्तानदृक् । दिल्लीशोऽपि विनश्य वेश्मकुहरे कुत्राऽप्यदृश्योऽभवज्ज्येष्ठस्तत्तनयो भयादिव रयात् पातालमेवाऽविशत् ।।५३(५२)।। साम्राज्यं सुचिरं नयार्थरुचिरं श्रीराजसिंहः प्रभू:(भुः) राण: पालयतात् कृपालयतया रामाभिरामः स्वयम् । धीरैः श्रीजयसिंहदेवविलसद्-भीमादिभिः प्रोद्धरैस्तेजोभिर्भुवनाभिनन्दनगुणस्फारैः कुमारैः स्वयम् ॥५४(५३)। आचन्द्रार्कमयं जयं सविजयं प्राप्नोतु शाखागणैवंशोऽनन्यसमानमानवपतिव्याजात् सुपर्वाश्रयः । भूभृद्वाजिशिरःप्रतिष्ठितपदश्छायाभिरामः स्वयं मुक्ताद्वैतविभूतिवर्धितरुचिस्तुङ्गश्रिया संभृतः ॥५५(५४)।। नृपाणां श्रेणीयं जयति विविधा पाठरचनै(नै)र्न कार्यो व्यामोहस्तदिह निपुणैश्चेतसि मनाम् । समानां साम्राज्यैः परिगणनया न्यायविदुषां बहूनां भ्रातृणामपि लिखनमासीदिह यतः ॥५६(५५)। वचित् तत्तत्कारपरनिजपूर्वाह्वयवशात् परावृत्तः पाठः क्वचिदपि समासेन गणनात् । अगाधेऽस्मिन् नूनं जननजलधौ भूपतिमणीन्
असङ्ख्यान् सङ्ख्यातुं प्रभवति मनीषी कथमहो ? ||५७(५६)।। ॥ इतिश्रीमहोपाध्यायमेघविजयगणिसमुचित: श्रीराणभूमीशवंशप्रकाशः ॥
॥ शुभं भवतात् ॥ ॥ व्योमभूताङ्केन्दु(१९५०)मिते वर्षे द्वितीयाषाढमासे शुक्लेतरपक्षे सप्तम्यां तिथौ गुरुवासरे लिपिकृतं मुनिमोहनविजयेन अजयमेरुदुर्गे ॥ श्रीपार्श्वनाथप्रसादात् ।।
॥ अहू ॥ श्रीं ॥