________________
September-2003
पाणौ यः सततं कृपाणललितैर्ज्योतिर्गणं भीषयांचक्रेऽद्यापि ततः क्षणं न वियति व्यालम्बते यं भिया ॥१२॥
गोविन्दो ३ नृपतिस्ततो गजवटागण्डस्थलान्निर्झरद् दानाम्भोभिरिदं भुवस्तलमलङ्कृत्वा सदा पङ्किलम् । म्लेच्छाधीशशिरस्सु भूमिलुठितेषु (षू)न्निद्रदूर्वाङ्करश्रेण कूर्चकचच्छलेन नितरामुद्भावयामास यः ॥१३॥
महेन्द्र ४ मुख्यास्तदनु क्षितीन्द्रा जाताः क्रमाद्राजकुलेषु चन्द्राः । व्यावर्णितैस्तच्चरितप्रपञ्चै-रालिख्य पूर्वेत नभोविभागः ॥ १४॥
ते चाऽमी
आलूनसिंहञ्च५ ततोऽपि सिंहः ६ शक्ते (क्ति: ) कुमारो ७ऽप्यथ शालिवाहः ८ ।
ततो नृपः श्रीनरवाहनाख्यः ९ ततोऽम्बिकादाश १० इति क्षितीशः ॥ १५ ॥
47
ब्रह्माऽथ११ नरब्रह्मो १२ - त्तमराजो १३ ऽभूत् ततोऽपि कर्णाख्यः १४ । श्रीभद्रसेन १५ - गोपति १६ - हंसनृपा १७ योगराजेशः १८ ॥१६॥ श्रीवैरसिंह १९ - वीरौ २० समराद् २१ रत्नात् २२ ततो [ ऽपि] सिंहाख्यौ । शरपञ्जर २३ - नवखण्डौ २४ नवखण्डाखण्डविदिताज्ञौ ॥१७॥ कुरुमेरु २५ - जैत्रसिंहो २६ श्रीकर्णसमस्ततोऽपि कर्णपति: २७ | इत्याद्या भूमिभुजो भुजौजसा विजितसुरराजाः ॥१८॥
अत्रान्तरे प्रबला राजानोऽन्येऽपि बभूवुस्ते पुस्तकान्तराद् ज्ञेयाः । राहपः १ क्षितिपतिः स महौजाः शत्रुराहुदलने हरिबाहुः || तत्र दुग्धजलधाविव जातः पारिजातशिखरी ह्यवदातः ॥१९॥ यस्मात् सम्प्रति भूतले विजयिनी राणेति भूमीभूजां ख्याति[:]स्फातिमुपैति चारुचरितैर्गङ्गेव वारां भरैः । यस्याऽद्यापि यशः सितोत्पलमिदं कर्णावतंसायते सर्वेषां दशदिग्वधूप्रणयिनामामोदमेदस्वलम् ॥२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org