________________
September-2003
51
यद् यद् राणपुरादितीर्थनियतं राणैः पुराणैः पुरा दत्तं शासनमासधीसखपदैलृप्तं च तल्लुम्पकैः ।। सर्वं धर्मधुरन्धुरोद्ध(धुरन्धरोद्धर)धिया प्रादाद् धराधीश्वरो वंशाकाशविभाविभाकररुचिः श्रीमान् जगत्सिहजः ॥४५(४४)। आघाटे नरसिंहभूमिपतिना पूर्वं तपस्तप्यतो दत्तं यस्य सदावदातविरुदं श्रीमत्तपेत्याख्यया । सूरिः श्रीजगदादिचन्द्रभगवान् निर्विक्रियः सत्कियोद्धारेणोद्धरणं चकार चरणाचारैर्जगत्याश्चिरम् ॥४६(४५)।। एतत्पट्टपरम्पराप्रणयिनीभालस्थलालङ्कृतेः सूरिश्रीविजयादिदेवसुगुरोर्धर्मोपदेशादसौ । राणः श्रीवरकांण-राणकपुरश्रीतीर्थयात्रार्थिनां सङ्घस्याऽनघचेतसा सममुचत् शुल्कानि शुक्लाशयः ॥४७(४६)। पिच्छिल्लोदयसागराख्यसरसोनीरे गभीरे सदा जालक्षेपनिषेधमादिशदसौ कारुण्यमुज्जीवयन् । तेनैतत्सरसोस्तटे पटुतरा डिण्डीरपिण्डच्छलात् कीर्तिःस्फूतिमियति सम्प्रति जगत्सिंहाख्यराणप्रभोः ॥४८(४७)। प्रतिशरत् शरदिन्तु(दिन्दु)यशारसाद् व्यरचयज्जिनपूजनमञ्जसा ! तपगणाधिपतेरुपदेशत-स्तरणिभासुरराणशिरोमणिः ॥४९(४८)।। धर्मस्योन्नतये स धर्मतनयः श्लोकप्रकाशेऽर्जुनो भीमो दुर्धरवैरिवारणघटाकुम्भस्थलस्फेटने । . साम्राज्यं समबूभुजत् स सुचिरं विश्वप्रजारञ्जनो राणश्रेणिनभोमणिः सुकृतकृत् श्रीमान् जगत्सिहराट् ॥५०(४९)। तत्पट्टभूषामणिरामणीयक: श्रीराजसिंहप्रभुरद्भुतप्रभः २६। जेजीयतेऽयं विजयश्रियान्वितः श्रीराणसूर्यो महसा महीयसा ॥५१(५०)। गन्धसिन्धुर इवोद्धरौजसा म्लेच्छराजविटपिव्रजानहो । मूलतोऽयमुदमूलयत् ततः कूर्चमेघु सुखकन्दमूलिकाः ॥५२(५१)।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org