Book Title: Ramchandrasuri Gunchandrabhyam Virachitayam Dravyalankar Swopagna Tikayam Bauddh Granthebhya Uddhrut Patha
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 9
________________ द्रव्यालङ्कारटीकायां बौद्धग्रन्थेभ्य उद्धृता: पाठाः P. 107. तदुक्तं-" तेनायं नियमार्थों दर्शितः-ज्ञेयोपलम्भो ज्ञानोपलम्भात्मक एव, नान्यथा / ज्ञानोपलम्भोऽपि ज्ञेयोपलम्भात्मक एवेति, अन्यथा त्वनिवर्तनम्" [प्रमाणविनिश्चयटीका पृ० 185 B] इति / P. 110. एतेन यदुक्तम्-" एतदुक्तं भवति-न मिनयोनियतः सहोपलम्मोऽन्योन्यसम्बन्धमन्तरेण / स च तादात्म्यनिमित्तकस्तावत् स्क्यमनभिप्रेतः / तदुत्पत्तावपि वह्विधूमयोरिव सहोपलम्भव्यभिचारः / विषयविषयिभावलक्षणस्तु साकारपक्षे निराकृत एव / निराकारपक्षेऽप्युक्तम्" [प्रमाणविनिश्चयटीका पृ० 186 A] इति, तत् प्रतिव्यूढम् / ___P. 110. तथा च-" यद् येन नियतसहोपलम्भं तत् ततो न व्यतिरिच्यते, यथैकस्माञ्चन्द्रमसो द्वितीयः, नियतसहोपलम्भश्च ज्ञानेन सह ग्राह्याकारो नीलादिः" [प्रमाणविनिश्चयटीका पृ० 189 B] इत्यभिधाय उक्तं-"मेदः सहोपलम्भानियमेन व्याप्तः प्रतिबन्धाभावात् , तस्य विरुद्धः सहोपलम्भनियमः, तेन व्यापकविरुद्धेन मेदो निराक्रियते" [प्रमाणविनिश्चयटीका पृ० 189 B-190 A] / ततो यदि ज्ञानार्थयोरभेदो न स्यात् तदा सहोपलम्भनियमोऽपि न स्यादिति / .. P. 112. शङ्करनन्दनस्त्वाह "सहसंवेदनं तावद् न सहावस्थानमतिवर्तते, सत्यपि हि संवेदने यदि नास्त्येव नीलं न किश्चित् संवेद्येत / तस्मात् सहसंवेदननियमेऽस्त्येव सहावस्थाननियमः / तदयम• तादात्म्ये प्रकारान्तरेण वक्तव्यः / तच्च न हेतुफलभावः, वह्निशून्यस्यापि धूमस्य दर्शनात् / न च प्रकाश्यप्रकाशकमावः, सर्वेषां स्वात्ममात्रपर्यवसितत्वेन तस्याघटनात् / न चाप्रतिबन्धे सम्भवति / न हि यद् यत्रानायत्तरूपं तस्य तेन सहावस्थाननियमो भवति / तस्मात् तादात्म्यादेवायं सहावस्थाननियमः / ततो यदि नाम ज्ञानस्य स्वसंविदिततयोत्पत्तः तादात्म्याभावेऽपि सहोपलम्भनियमस्तथापि सहावस्थाननियमो न सिध्यति" ] इति / P. 120. यदाहुः -" पारमार्थिकमपि प्रमाणं न निर्हेतुकम् / न च भावनाव्यतिरिक्तो हेतुः / भावना च सांव्यवहारिकप्रमाणपरिच्छिन्नार्थविषया / ततश्च तत् सांव्यवहारिकं प्रमाण सम्यग निरूपितं पारमार्थिकज्ञानहेतुः सम्पद्यते / ततस्तद्विषयो यत्नः परमार्थविषय एव / मिथ्याज्ञानेन हि विषयीकृता भावा नित्यादिभिराकारैर्भाव्यमाना न पारमार्थिकज्ञाननिबन्धनं भवन्ति / अनित्यादिभिस्त्वाकारैर्भाव्यमाना निबन्धनं भवन्त्येव / तस्मादतो व्यामाहं व्यावर्त्य परमार्थनयेऽवतारयितव्यो जनः, स्थूलविषयत्वादस्य व्यामोहस्य / एतद्वयामोहनिवृत्तिपूर्विका च परमार्थप्राप्तिः" [ ] इति / 1 धर्मोत्तरे -टि।

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16