Book Title: Ramchandrasuri Gunchandrabhyam Virachitayam Dravyalankar Swopagna Tikayam Bauddh Granthebhya Uddhrut Patha
Author(s):
Publisher:
View full book text ________________ 13 द्रव्यालङ्कारटीकायां बौद्धग्रन्थेभ्य उद्धृता: पाठाः P. 189. यदाह" प्रवृत्तिविषयस्य व्यवस्थापकं प्रमाणमिष्यते / तत्र सत्यपि बायेनार्थेन सबन्धे वाच्यभृतेन पदेभ्यो य: पदार्थप्रत्यय उत्पद्यते न तेन कश्चित् प्रवृत्तिविषय उपस्थापितो येन घटार्थी कुतश्चिद् निवृत्य क्वचित् प्रवर्तेत / तथाहि-देशविशेषसम्बद्धे वस्तुनि प्रवृत्तिविषये पुरुषः प्रवर्तितुमुत्सहते / न च केनचिद् देशेन विशिष्टो घटो घटशब्देनोपदर्शित इति कथं तस्मात् प्रवृत्तिः" [ ] इति / - P. 190. यत् प्रमाणवार्तिकम् - " तद्भावहेतुभावौ हि दृष्टान्ते तदवेदिनः। ख्याप्येते विदुषां वाच्यो हेतुरेव हि केवलः"॥ [प्रमाणवार्तिकम् 3 / 27] इति / _P. 193. एतेन यदुक्तम्" स्वयं हि वस्तु क्वचिद् दृश्यमानं नान्तरीयकं वस्तु तत्रैव सन्निहितमुपदर्शयत् प्रवृत्त्यङ्गं कुर्यात् / शब्दस्तु यत्र पुरुषे दृश्यते न तत्र साध्यार्थोपसंहारः शक्य: कर्तुम् / यत्र च प्रदेशादौ घटो व्यवस्थितस्तत्र शब्दो न दृश्यते / तेन स्वदेशे शब्द: प्रतिपाद्यमर्थमनुपसंहरन प्रवृत्तिनिमित्तीकुर्यात् / तथा न कश्चित् प्रदेशं प्रतिपाद्येनार्थेन विविक्तं दर्शयेत् यः परिहारात्मकप्रवृत्तिविषयः स्यात् " [ ] इति, तदपि निरस्तम् / अथ तृतीयः प्रकाशः P. 3. तदुक्तम्___ "क्षणिकाः सर्वसंस्कारा अस्थिराणां कुतः क्रिया / भूतियैषां क्रिया सैव कारकं सैव चोच्यते // " [ ] इति / __P. 49. " सक्रियस्य हि यदूपमक्रियस्य विरोधि तत् / - ततः कार्यक्रियाकाले पूर्वरूपव्ययो ध्रुवः // " [ ] ___P. 61. यदुक्तं परेण'यो हि यद्रूपो नोपलभ्यते न स तद्रूपः, यथा सुखं दुःखरूपेणानुपलभ्यमानं न तद्रूपम् , तथा च दधिरूपेण नोपलभ्यते क्षीरमिति न तद्रूपम् / सचं हि तादृशस्य दृश्यस्य उपलभ्यतया व्याप्तं तन्मात्रनिमित्तत्वादुपलम्भस्य / उपलभ्याभावाच्च व्याप्यस्यापि सत्वस्य निवृत्तिः / इतररूपोपलम्भश्च तद्रूपानुपलम्भः” [ ] इति, तदपि प्रत्युक्तम् / P. 62. तथेदमपि प्रत्युक्तम्"अथ केयं शक्तिः -" किं स एव भावः, उतान्यदेव किञ्चित् 1 स एव चेत्, तथैवो1 अस्य बौद्ध ग्रन्थादुद्धृतत्वेऽस्माकं सन्देहः॥ 2 अस्य बौद्धग्रन्थादुद्धृतत्वेऽस्माकं सन्देहः।
Loading... Page Navigation 1 ... 11 12 13 14 15 16