Book Title: Ramchandrasuri Gunchandrabhyam Virachitayam Dravyalankar Swopagna Tikayam Bauddh Granthebhya Uddhrut Patha
Author(s):
Publisher:
View full book text ________________ 14 द्रव्यालङ्कारटीकायां बौद्धग्रन्थेभ्य उद्धृताः पाठाः पलभ्येत विशेषाभावात् / अन्यच्चेत् , कथमन्यभावे तदस्ति / उपचारमात्रं तु स्यात् / एतेन परत्र भाव: प्रत्युक्तः" [ ] इति / P. 71. भट्टार्चटस्त्वाह" यद्युत्तरं कार्यात्मकं भावान्तरमेवाभावस्तदाऽग्निसंयोगादयोऽङ्गारादिजन्मनि व्याप्रियन्त इतीष्टमेवास्माकम् , किन्तु भावान्तरकरणेऽभ्युपगम्यमानेऽग्न्यादीनामिन्धनादावव्यापारात् तदवस्थमेवेन्धनादिकम् / ततश्च यथा अग्न्यादिसंयोगात् प्रागिन्धनादेरुपलब्धिरन्या च तत्साध्यार्थक्रिया तथाङ्गाराद्युत्पत्तावुपलब्ध्यादेः प्रसङ्गः" [हेतुबिन्दुटीका पृ० 78 ] इति, तदेतं भट्टार्चटाशयविटपिनमुत्पाटयति / __P. 72. यदप्युक्तं भट्टाचंटेन" यदि भावान्तरं प्रध्वंसाभावो य एतेऽनुपजातविकाराः प्रदीप-बुद्धथादयो ध्वंसन्ते तेषां कतरद् भावान्तरं प्रध्वंसो व्यवस्थाप्येत" [ हेतुबिन्दुटीका पृ० 79] इति, तत् परसिद्धान्तानवबोधवाधितमित्युपेक्षामर्हति / ___P: 74. तदाह भट्टार्चटः" पर्युदास एवैको नअर्थश्व स्यात् / सोऽपि वा न भवेत् / यदि हि किश्चित् कुतश्चिद् निवर्यंत तदा तद्वयतिरेकि संस्पृश्येत तत्पर्युदासेन / तच्च नास्ति सर्वत्र निवृत्तिर्भवतीत्युक्ते वस्त्वन्तरस्यैव कस्यचिद् विधानात् / तथा चानेन वस्त्वन्तरमेवोक्तं स्यात् , न तयोविवेकः / अविवेके च न पयुदासः" [ हेतुबिन्दुटीका पृ० 81] इति / ____P. 76. अत्र कीर्तिविनाशाहेतुत्वं साधनायोपन्यस्यति "सापेक्षाणां हि *भावानां नावश्यंभावितक्ष्यते / निरपेक्षो भावो विनाशे। सापेक्षत्वे हि घटादीनां केषाश्चिद् नित्यताऽपि स्यात् / यद्यपि बहुलं विनाशकारणानि सन्ति, तेषामपि स्वप्रत्ययाधीनसन्निधित्वाद् नावश्यं सबिधानमिति कश्चिद् न विनश्येदपि। न ह्यवश्यं हेतवः फलवन्तः, वैकल्यप्रतिबन्धसम्भवात् / " [प्रमाणवार्तिकस्ववृत्तिः Hindu Vishvavidyalaya Nepal Rajya Sankrit Series पृ० 65, प्रमाणविनिश्चयः पृ. 276 A ] इति / ___"अयं च प्रमाणार्थों दर्शितः - यो यद्भावं प्रत्यनपेक्षः स तद्भावनियतः / यदि निरपेक्षोऽपि भावः कालदेशा[वस्था Tibetan]न्तरापेक्षया विनश्येत् तदा देशकालावस्थान्तरापेक्षत्वाद् निरपेक्षोन स्यात् / * 'धर्माणाम् ' इति प्रमाणषिनिश्चये पाठः //
Loading... Page Navigation 1 ... 12 13 14 15 16