Book Title: Ramchandrasuri Gunchandrabhyam Virachitayam Dravyalankar Swopagna Tikayam Bauddh Granthebhya Uddhrut Patha
Author(s):
Publisher:
View full book text ________________ 15 द्रव्यालङ्ककारटीकायां बौद्धग्नन्थेभ्य उद्धृता: पाठाः ततश्च यधेकमपि क्षणं तिष्ठेत् कालान्तरापेक्षया निरपेक्षत्वं बाध्येत / तस्मात् क्षणमात्रावस्थानेऽपि सापेक्षत्वसम्भवाद् निरपेक्षत्वं विरुद्धोपलब्ध्या विपक्षाद् व्यावय॑ते" [प्रमाणविनिश्चयटीका पृ० 290 B- 291 A] / ___P. 76. यदुक्तम्" न ध्रुवभावी भूतस्यापि भावस्य विनाशः, हेत्वन्तरापेक्षणात्" [ ] इति / ___P. 77. तस्माद् धर्मकीर्ति-धर्मोत्तरयोरेवंपरमेव वचः, यथा"यो धर्मिणो धर्मों हेतुव्यतिरेकिणा हेत्वन्तरेण क्रियते, स नावश्यम्भावी, यथा वाससि रागः, विनाशोऽपि यदि तथा स्यात् सोऽपि ध्रुवं न स्यादिति न व्यतिरिक्तहेतुकृतोऽसौ" [ ] इति। P. 79. शङ्करनन्दनस्त्वाह"यथाविधोऽन्वयः तथैवावगमोऽवगच्छंस्तद्वयवस्थानिमित्तं स्यात् , अन्वयश्चाविनाशो नित्यत्वमनेककालसम्बद्धता वा अभिधीयते / न च तथा प्रत्यक्षेण ग्रहणं सम्भवति / एवं हि संभवेत् , यदि प्रत्यक्षं वस्तु गृह्णन् कालत्रयसम्बन्धितावभासं स्यात् , तच्च नास्ति, इन्द्रियापेक्षितया प्रत्यक्षेण वर्तमानकालसहभावित्वमात्रस्य ग्रहणात् / इन्द्रियस्य हि भूतभविष्यतोः सम्बन्धानहत्वात् / तदाहनार्थाभेदोऽपरं रूपं रूपात् कालद्वयानुगात् / तस्य नानुभवात् सिद्धिर्वर्तमानार्थसंश्रयात् // " ] इति / ____P. 82. पुनरप्याह'- “न रूपविशेषाविष्करणमन्तरेणास्ति प्रत्यक्षं किञ्चित् / ततः क आकारोऽन्वयस्यावभासत इति निवेद्यताम्" [ ] इति / ___P. 82. ततो यदुच्यते- " तन्न प्रत्यक्षव्यापारेण नित्यताव्यवस्थापनम्, किन्तु प्रातिभज्ञानादेव [ ] इति तदपाक्रियत / _P. 85. यदुक्तं हेतुबिन्दौ" समनन्तरप्रत्ययाद् विज्ञानाचक्षुर्विज्ञानस्योपलम्भात्मता / तस्यैवोपलम्भात्मनः सतश्चक्षुरिन्द्रियाद् रूपगहणयोग्यताप्रतिनियमः / विषयात् तत्तुल्यरूपता / इत्यभिन्नत्वेऽपि वस्तुतः कार्यस्य कारणानां मिन्नेभ्यः स्वभावेभ्यो भिन्ना एव विशेषा भवन्ति " [हेतुबिन्दुः पृ० 10-11] इति / 1 शङ्करः -टि० /
Loading... Page Navigation 1 ... 13 14 15 16