Book Title: Ramchandrasuri Gunchandrabhyam Virachitayam Dravyalankar Swopagna Tikayam Bauddh Granthebhya Uddhrut Patha
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 16
________________ 16 द्रव्यालङ्कारटीकायां बौद्धग्रन्थेभ्य उद्धृताः पाठाः ___P. 86. लक्षणं चेदम्" जनकैराधेयातिशयस्य कार्यस्य समस्तविशेषकोडीकरणसमर्थ आत्मा यस्मादुत्पद्यते तदुपादानम् / यथा चक्षुरादिभ्यश्चक्षुर्विज्ञानस्य समस्तोफ्कारमयं बोधरूपत्वं समनन्तरप्रत्ययादुत्पन्न मिति तदुपादानम्" [ ] इति / __P. 86. एवं चानेनाप्युपादानलक्षणेन न दोष:" अवस्थाभेदेऽपि यदेकाकारपरामर्शप्रत्ययनिबन्धनतया स्वसन्ततिपतितकार्यप्रसतिनिमित्तं तदुपादानकारणम्" [ हेतुबिन्दुटीका पृ० 95] इति / ___P. 95. अर्चटस्त्वाह" व्यतिरिक्तमपि भावांशादभावांशमिच्छता भावांशः स्वभावेनासंकीर्णरूपः कल्पनीयः, अन्यथा स एव भावांशो न सिध्येत् / न च स्वभावेनासंकीर्णरूपतायामसत्यां पृथग्भूताभावांशसद्भावेऽपि सा युक्तिमती, स्वहेतुबलायातस्य संकीर्णरूपस्याकिश्चित्कराभावांशसम्भवेऽपि त्यागायोगात् / न च तेनैव तद्विनाशनम् , विनाशहेतोरयोगात् / तेन संकीर्ण न्यायोपगमेन / तस्मात् स्वभाव एव भावानां पररूपविकलत्वादभावांशो नान्यः" हेतुबिन्दुटीका पृ० 25-26 ] इति / P. 103. एतेन यदुक्तम्"विरोधिसमिधेर्दोषस्तजन्मा न भवेदपि। सति तस्मिस्तदात्मा तु नानिष्टोऽपि निवर्तते।" [ ] इति, तदपि प्रत्युक्तम् / " मुक्तो न मुक्त एव हि संसार्यपि सर्वथा न संसारी। मानमपि मानमेव हि हेत्वाभासोऽप्यसावेव // 1 // एवं सप्रतिपक्षे सर्वस्मिन्नेव वस्तुतत्त्वेऽस्मिन् / स्याद्वादिनः सुनीत्या न युज्यते सर्वमेवेह // 2 // " ] इति / तदपि निरस्तम् / [ 1 अस्य बौद्धग्रन्थादुद्धृतत्वेऽस्माकं सन्देहः / अनेकान्तजयपताकायामपि उद्धृतमेतत् //

Loading...

Page Navigation
1 ... 14 15 16