Book Title: Ramchandrasuri Gunchandrabhyam Virachitayam Dravyalankar Swopagna Tikayam Bauddh Granthebhya Uddhrut Patha
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 7
________________ MOLTOLAM द्रव्यालङ्कारटीकायां बौद्धग्रन्थेभ्य उद्धृताः पाठाः _P. 50. यदाह-"न च सामान्यं काश्चिदर्थक्रियामुपकल्पयति स्वलक्षणप्रतिपत्तेरूचं तत्सामोत्पविकल्पज्ञानग्राह्यम् " [हेतुबिन्दुः पृ० 3] इति P. 54. यदुक्तम्" 'अन्योन्यप्रत्ययापेक्षास्ते तथास्थितमूर्तयः। कर्मणां चापि सामर्थ्यादविनिर्भागवर्तिनः // सनिवेशेन ये भावाः प्राणिनां सुखदुःखदाः। कर्मभिर्जनितास्ते हि तेभ्य एवाविभागिनः॥" [6 ] इति / P. 56. यदुक्तम्- "बहूनां च निरवयवानां प्रतिभासः समुदायविषयः सावयव आभासते [ ] इति / __P: 57. एतेन यदप्युक्तम्." यत् सत् तभिरवयवम् , यथा ज्ञानम् , सच्च दृश्यमानं नीलम् , सावयवत्वे हि दिग्भागभेदनिमित्तो विरुद्धो धर्मः सत्त्वस्यासत्वाख्यो भवति / तेन स्वभावविरुद्धोपलब्ध्या व्यावर्तमानं सत्त्वं निरवयवत्वेन व्याप्यत इति स्वभावः" [ ] इति, तदपि प्रत्युक्तम् / P. 68 एतेन यदुक्तम्"नापि स्थूल एको विषयस्तथावमासी, पाण्यादिकम्पे सर्वस्य कम्पप्राप्तेः। अकम्पने च चलाचलयोः पृथसिद्धिप्रसङ्गाद् वस्त्रोदकवत् , एकस्यावरणे सर्वस्यावरणप्रसङ्गः अभेदात् / न वा कस्यचिदावरणमित्यविकलं दृश्येत" / ...........तथा "रक्त चैकस्मिन् रागः, अरक्तस्य वा गतिः। अवयवरागे वाऽवयविरूपमरक्तमिति रक्तारक्तं दृश्येत / तस्मान्नैकः कश्चिदर्थोऽस्ति यो विज्ञानं सरूपयति" [प्रमाणविनिश्चयः पृ० 262 A] इति, तत् प्रत्युक्तम् / - P. 77. 'यद् वृत्तिः - “इन्द्रियादीनां तु विज्ञानस्य कार्यस्य कादाचित्कत्वात् सापेक्षत्वसिद्धया प्रसिद्धिरुच्यते किमप्यस्य कारणमस्ति" [५माणातिक] इति / P. 77-78: धर्मोत्तरस्त्वाह" किं तस्य सतो भावस्य निवृत्तिधर्मा स्वभावः स्वहेतुभ्यो निष्पन्न आहोम्बिदनिवृत्तिधर्मा / यदि पूर्वः पक्षः, निवृत्तिधर्मतया स्वयमेव निवर्तेत / न च विनाशहेतुसापेक्षनिवृत्तिक एव हेतुभिर्जनित इति वक्तुं युक्तम् / तथाहि-यावद् विनाशहेतुसनिधिकालः तावत् स्थितिधर्मा भावः, अस्थितिधर्मत्वे प्रागेव निवृत्तिप्रसङ्गात् / विनाशहेतुसनिधिकाले X1 अस्य बौद्धग्रन्थादुद्धृतत्वेऽस्माकं सन्देहः 2 धर्मोत्तरानुमानम्-"विवादाध्यवासितं नीलं निरवयवम्, सत्वात् , यथा ज्ञानम्"-टि० / / 3 बृहद्धर्मोत्तरेण-टि० // / धर्मोत्तरवार्तिकम्-टि० // स्वत:१०

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16