Book Title: Rajprashniyasutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 5
________________ चाची, तथा च लोके वक्तारो-नाद्याप्येतस्य वक्तव्यस्य सपयो वर्तते, किमुक्तं भवति ?-नाद्याप्यतस्य वक्तव्यस्यावसरो वर्तते इति, तस्मिन्निति यस्मिन् समये भगवान् मूर्याभदेववक्तव्यतामचकथत् तस्मिन् समये आमलकल्या नाम नगरी अभवत्, नन्विदानीमपि सा नगरी वर्तते ततः कथमुक्तमभवदिति ?, उच्यते, वक्ष्यमाणवर्णकग्रन्थोक्तविभूतिसमन्विता तदैवाभवत्, न तु| विवक्षितोपाङ्गविधानकाले, तदपि कथमवसेयमिति चेत् , उच्यते, अयं कालः अवसर्पिणी, अवसर्पिण्यां च प्रतिक्षणं शुभा भावा हानिमुपगच्छन्ति, एतच्च सुप्रतीतं जिनवचनवेदिनामतोऽभवदित्युच्यमानं न विरोधभाक् । सम्पत्यस्या नगर्या वर्णकमाहरिद्धत्थिमियसमिद्धा जाव पासाइया दरिसणिज्जा अभिरूवा पडिरूवा" इति ऋद्धा-भवनैः पौरजनैश्चातीव वृद्धिमुपागता, 'ऋषि दृद्धाविति वचनात् , स्तिमिता-स्वचक्रपरचक्रतस्करडमरादिसमुत्थभयकल्लोलमालाविवर्जिता, समृद्धा-धनधान्यादिविभूतियुक्ता, ततः पदत्रयस्य विशेषणसमासः, यावच्छब्देन 'पमुइयजणजाणवया' प्रमुदिताः-प्रमोदवन्तः प्रमोदहेस्तुवतूनां तत्र सद्भावात् , जनानगरीवास्तव्यलोकाः जानपदा:-जनपदभवास्तत्र प्रयोजनक्शादायाताः सन्तो यत्र सा प्रमुदितजनजानपदा, 'आइण्णजणमणूसा' मनुष्यजनैराकीर्णा, प्राकृतत्वात्पदव्यत्ययः, "हलसयसहस्ससंकिटविगिलट्टपण्णत्तसेउसीमा" हलानां शनैः सहस्रश्च सकृष्टाविलिखिता विकृष्टा-नगर्या. दूरवर्तिनी बहिवर्तिनीति भावः, लष्टा-मनोज्ञा प्राज्ञैः-छेकैराप्ता प्राज्ञाप्ता, छेकपुरुषपरिकर्मितेति भावः, सेतुसीमा कुल्याजलसेक्यक्षेत्रसीमा यस्याः सा हलशतसहस्रसकृष्टविकृष्टलष्टपाज्ञाप्तसेतुसीमा, 'कुकुडसंडेयगामपउरा' कुकुडसम्पात्या 0 जाग्रामाः सर्वासु दिक्षु विदिक्षु च प्रचुरा यस्याः सा कुकुडसण्डेयग्रामप्रचुराः, 'गोमहिसगवेलगप्पभूया गावी-बलीवदा महिपाः-प्रतीता गावः-स्वीगव्य एडकाः-उरभ्रास्ते प्रभूता यस्यांसा तथा, 'आयारवन्तचेइयजुबइविसिद्धसन्निविटबहुला' आकारवन्ति-सुन्दराकाराणि Jain Education For Personal & Private Use Only Thinelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 302