Book Title: Rajprashniyasutram
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
यथा भवति एवं जात आनुपूर्वीसुजातः, तथा निरुपहत-उपदेहिकायुपद्रवरहित उद्विद्धः-उच्चः प्रवरः-प्रधानः स्कन्धो यस्य स बाघनमसणम्निग्धानुपूर्वीसुजातनिरुपहतोद्विद्धप्रवरस्कन्धः, तथा अनेकस्य नरस्य-मनुषस्य ये प्रवराः-प्रलम्बा भुजाः-वाहवस्तरग्राह्यः
अपरिमेयोऽनेकनरप्रवर जाग्राह्यः, अनेकपुरुषव्यामैरप्यप्रतिमेयस्थौल्य इत्यर्थः, तथा कुसुमभरेण-पुष्पसम्भारेण सम-पदवनमन्त्यः पत्रसमृद्धाः 'पत्तसमिद्धति खंधपित्तलमिति वचनात् विशाला-विस्तीर्णाः शालाः-शाखा यस्य स कुमुमभरसमवनमत्पत्रलविशालशालः, तथा मधुकरीणां भ्रमराणां च ये गणा 'गुमगुमायिता' गुमगुमायन्ति स्म, कर्मकर्तृत्वात्कतरिक्तप्रत्ययो, गुमग्रमेति । शब्दं कृतवन्तः सन्त इत्यर्थो, निलीयमानाः-आश्रयन्त उड्डीयमानाः-तत्पत्यासनमाकाशे परिभ्रमन्तस्तैः सश्रीको मधुकरीभ्रमरगणगुमगुमायितनिलीयमानोड्डीयमानसश्रीकः, तथा नानाजातीयानां शकुनगणानां यानि मिथुनानि-स्त्रीपुंसयुग्मानि तेषां प्रमोदवशतो यानि परस्परसुमधुराण्यत एव कर्णसुखानि-कर्णसुखदायकानि प्रलप्तानि-भाषणानि, शकुनगणानां हि स्वेच्छया क्रीडता प्रमोदभरवशतो यानि भाषणानि तानि प्रलप्तानीति प्रसिद्धानि ततः 'पलत्ते त्युक्तं, तेषां यः शब्दो-ध्वनिस्तेन मधुरो नानाशकुनगणमिथुनसुमधुरकर्णसुखमलप्तशब्दमधुरः, तथा कुशा-दर्भादयो विकुशा-वल्वजादयाः तैर्विशुद्ध-रहितं वृक्षस्य-सकलस्याशोकपादपस्य, इह मूलं शाखादीनामपि आदिमो भागो लक्षणया प्रोच्यते, यथा शाखामूलमिदं प्रशाखामूलमिदमित्यादि, ततः सकलाशोकपादपसत्कमलप्रतिपत्तये वृक्षग्रहणं, मूलं यस्य स कुशविकुशविशुद्धवृक्षमूलो, यश्चैवंविधः स द्रष्ट्रणां चित्तसन्तोषाय भवति, तत आहप्रासादीयः- प्रसादाय-चित्तसन्तोषाय-हितस्तदुत्पादकत्वात् प्रासादीय अत एव दर्शनीयो-द्रष्टुं योग्यः, कस्मादित्याह-'अभिरूपो' द्रष्टारं २ प्रत्यभिमुखं न कस्यचिद्विरागहेतू रूपम्-आकारो यस्यासावभिरूपः, एवंरूपोऽपि कुतः ? इत्याह-प्रतिरूपः-प्रतिविशिष्ट
NEET 2017
Jain Education AIROI
For Personal & Private Use Only
Hindainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 302