Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
प्रव्रज्याविधाने
॥६
॥
TECAREGACICIAAG
वज्यं च चतुर्भङ्गथापि सर्वदा रात्रिभोजनं सर्वम् । विज्ञानाराधनयोयतितव्यं चरणकरणानाम् ॥ ८ ॥ दशविधदश- प्रस्तावना | धासामाचार्याः कार्यस्तथाऽऽदरः परमः । सच्चक्रवालसामाचारी चाहर्निशं सेव्या ॥९॥ अष्टावप्याराध्या मातर इव मातरः | प्रवचनस्य । शीलाङ्गानामष्टादशसाहस्री च वोढव्या ॥ १० ॥ कार्या च पिण्डशय्याकपटयात्रादिविषयिणी शुद्धिः । ग्रामकुलस्वजनादिषु परिहरणीयं ममत्वं च ॥ ११ ॥ गुणवृद्धिमृलहेतुगुरुकुलवासो न जातु मोक्तव्यः । कर्त्तव्या द्रव्यादिप्रतिबद्धाऽभिग्रहजिघृक्षा ॥ १२ ॥ विकृतित्यागः षष्ठाष्टमादिकष्टं तपश्च चरायम् । जेया परीषहचमूमहोपसर्गाश्च सोढव्याः॥१३॥ अनियतवासो भिक्षाटनं च तलिकोपभोगपरिहारः । शीतातपदंशाद्याहितपीडाविषहणं कार्यम् ॥ १४ ॥ | स्नानविलेपनभूषाद्यभिलाषश्चेतसाऽपि नो कार्यः । भूमौ शयनं केशोल्लुंचनमपि दुष्करं सह्यम् ॥ १५ ॥ प्रतिमाभ्यासः कायो-18 त्सर्गो नानाविधासनाविधानम् । इत्यादिरनेकविधः कायक्लेशो विधातव्यः ॥ १६ ॥ शान्तिक्षमैश्च भाव्यं क्रोधाहङ्कारनिकृतिलोभाश्च । शत्रव इव निग्राह्या दमनीयः करणहयनिचयः ॥ १७॥ अन्यच्च चरेत्तिष्ठेदासीत तथा शयीत भुञ्जीत ।
भाषेत शान्तचित्तः सदैव किल यतनया साधुः ॥ १८ ॥ मानापमानलाभालाभेष्वविकारमानसर्भाव्यम् । सोढव्या द दुर्जनवचनकण्टकाहितमहापीडा ॥ १९ ॥ दण्डत्रितयं शल्यत्रयं च विकथास्वपरपरिवादः । ऋद्धिरससातगौरवमदविषया |
दरतस्त्याज्याः ॥ २०॥ किं बहुना पैशाचिकमाख्यानं कुलवधूकथां श्रुत्वा । नित्यं संयमयोगैर्धार्यश्चात्माऽक्षणिक एव ॥६ |॥ २१ ॥ एतत्समुद्रतरणं बाहुभ्यां श्रोतसि प्रतिश्रोतः । गमनं सिकताकवलस्य चर्वणं शिखिशिखापानम् ॥ २२ ॥ मेरोस्तुलया तोलनमिदं तु निशि निशितखड्गधारायाम् । चंक्रमणं शत्रुबले युद्धं चैकाकिनचैतत् ॥ २३ ॥ ग्राह्या च जयपताका
PECIGARESCARRC SCARSA

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 278