Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रव० सा
रोद्धारे
तत्त्वज्ञा
नवि०
॥६॥
Jain Education
मप्रवर्तिनीनामानि वक्तव्यानि ९, तथा अर्हत्त्वार्जने - तीर्थकरपदोपार्जने यानि स्थानानि - कारणानि तानि च वक्तव्यानि, ठाणा इति प्राकृतशैल्या पुंसा निर्देशः १०, तथा जिनानां जनन्यो - मातरो जनकाच - पितरस्तेषां नामानि वक्तव्यानि ११, तथा तेषामेव गुणशेषाणां कस्यां गतौ गमनमिति गतिर्वक्तव्या १२, इति तृतीयगाथायामष्टमादीनि द्वादशान्तानि पञ्च द्वाराणि भणितानि ॥ ४ ॥ उत्कृष्टजघन्याभ्यां पदाभ्यामिति गम्यं विहरत्तीर्थनाथानां सङ्ख्या भणनीया, कियन्त उत्कृष्टतो विहरमाणास्तीर्थनाथा एककालं लभ्यन्ते ? जघन्यतश्च कियन्तः ? १३, तथा 'जम्मसमय'त्ति जन्मसमयेऽपि सङ्ख्या उत्कृष्टजघन्यका उत्कृष्टजघन्यभवा तेषां - तीर्थनाथानां [सङ्ख्या ] भणनीया, एककालमुत्कृष्टतः कियन्तः कर्मभूमिषु ते जायन्ते कियन्तश्च जघन्यतः १४, इति चतुर्थगाथायां त्रयोदशचतुर्दशस्वरूपं द्वारद्वयमभिहितम् ॥ ५ ॥ अत्र जिनशब्दात् प्राकृतशैल्या षष्ठीबहुवचनं लुप्तं, ततो जिनानां सम्बन्धिनो गणधराच मुनयश्च श्रमण्यश्च वैकुर्विकाञ्च वादिनश्च अवधयश्च केवलिनश्चेति द्वन्द्वसमाहारे गणधर मुनिश्रमणी वैकुर्विक वाद्यवधिकेवलि (नस्त ) तस्येति, ततश्च गाथापर्यन्तवर्ति 'संखाउ' इतिशब्दसम्बन्धाज्जिनानां - ऋषभादीनां प्रत्येकं ये गणधरास्तेषां सङ्ख्या भणनीया १५, तथा तेषामेव ये मुनयः - साधवस्तेषां सङ्ख्या १६, तथा तेषामेव याः श्रमण्यो - त्रतिन्यस्तासां सङ्ख्या १७, तथा 'विकुर्व विक्रियाया' मिति धातुगणे धातुः विकुर्वणमिति 'हलचे 'ति ( पा० ३ -३ - १२१ ) घञि च विकुर्वस्तेन चरन्ति 'तेन चरती 'ति (पा० ४-४-८ चरति ) ठकि 'ठस्येक' ( पा० ७-३-५० ) इति इकादेशे च वैकुर्विकास्तेषां सङ्ख्या १८, तथा वादिनां देवासुरैरप्यजेयानां सङ्ख्या १९, तथा अवध्यवधिमतोरभेदादवधीनांअवधिज्ञानवतां सङ्ख्या २०, तथा केवलिनां सङ्ख्या २१, तथा मनोज्ञानिनां - मनः पर्यवज्ञानिनां सङ्ख्या २२, तथा चतुर्दशपूर्विणां - चतुर्दशपूर्वधराणां सङ्ख्या २३, तथा श्राद्धानां श्रावकाणां २४, तथा श्राद्धिकानां -श्राविकाणां सङ्ख्या वक्तव्या २५, इति पञ्चमगाथायां पञ्चदशा
For Private & Personal Use Only
२७६ द्वारनिर्देशः
॥ ६॥
Sanelibrary.org

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 444