SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञा नवि० ॥६॥ Jain Education मप्रवर्तिनीनामानि वक्तव्यानि ९, तथा अर्हत्त्वार्जने - तीर्थकरपदोपार्जने यानि स्थानानि - कारणानि तानि च वक्तव्यानि, ठाणा इति प्राकृतशैल्या पुंसा निर्देशः १०, तथा जिनानां जनन्यो - मातरो जनकाच - पितरस्तेषां नामानि वक्तव्यानि ११, तथा तेषामेव गुणशेषाणां कस्यां गतौ गमनमिति गतिर्वक्तव्या १२, इति तृतीयगाथायामष्टमादीनि द्वादशान्तानि पञ्च द्वाराणि भणितानि ॥ ४ ॥ उत्कृष्टजघन्याभ्यां पदाभ्यामिति गम्यं विहरत्तीर्थनाथानां सङ्ख्या भणनीया, कियन्त उत्कृष्टतो विहरमाणास्तीर्थनाथा एककालं लभ्यन्ते ? जघन्यतश्च कियन्तः ? १३, तथा 'जम्मसमय'त्ति जन्मसमयेऽपि सङ्ख्या उत्कृष्टजघन्यका उत्कृष्टजघन्यभवा तेषां - तीर्थनाथानां [सङ्ख्या ] भणनीया, एककालमुत्कृष्टतः कियन्तः कर्मभूमिषु ते जायन्ते कियन्तश्च जघन्यतः १४, इति चतुर्थगाथायां त्रयोदशचतुर्दशस्वरूपं द्वारद्वयमभिहितम् ॥ ५ ॥ अत्र जिनशब्दात् प्राकृतशैल्या षष्ठीबहुवचनं लुप्तं, ततो जिनानां सम्बन्धिनो गणधराच मुनयश्च श्रमण्यश्च वैकुर्विकाञ्च वादिनश्च अवधयश्च केवलिनश्चेति द्वन्द्वसमाहारे गणधर मुनिश्रमणी वैकुर्विक वाद्यवधिकेवलि (नस्त ) तस्येति, ततश्च गाथापर्यन्तवर्ति 'संखाउ' इतिशब्दसम्बन्धाज्जिनानां - ऋषभादीनां प्रत्येकं ये गणधरास्तेषां सङ्ख्या भणनीया १५, तथा तेषामेव ये मुनयः - साधवस्तेषां सङ्ख्या १६, तथा तेषामेव याः श्रमण्यो - त्रतिन्यस्तासां सङ्ख्या १७, तथा 'विकुर्व विक्रियाया' मिति धातुगणे धातुः विकुर्वणमिति 'हलचे 'ति ( पा० ३ -३ - १२१ ) घञि च विकुर्वस्तेन चरन्ति 'तेन चरती 'ति (पा० ४-४-८ चरति ) ठकि 'ठस्येक' ( पा० ७-३-५० ) इति इकादेशे च वैकुर्विकास्तेषां सङ्ख्या १८, तथा वादिनां देवासुरैरप्यजेयानां सङ्ख्या १९, तथा अवध्यवधिमतोरभेदादवधीनांअवधिज्ञानवतां सङ्ख्या २०, तथा केवलिनां सङ्ख्या २१, तथा मनोज्ञानिनां - मनः पर्यवज्ञानिनां सङ्ख्या २२, तथा चतुर्दशपूर्विणां - चतुर्दशपूर्वधराणां सङ्ख्या २३, तथा श्राद्धानां श्रावकाणां २४, तथा श्राद्धिकानां -श्राविकाणां सङ्ख्या वक्तव्या २५, इति पञ्चमगाथायां पञ्चदशा For Private & Personal Use Only २७६ द्वारनिर्देशः ॥ ६॥ Sanelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy