________________
प्र सा. २
Jain Education
दीनि पञ्चविंशतितमान्तान्येकादश द्वाराण्यभिहितानि || ६ || जिनानां यक्षास्तथा देव्यः - शासनदेवताः तथा तनुमानं - शरीरप्रमाणं २६-२७-२८, तथा लाञ्छनानि - चिह्नानि २९, तथा वर्णा- रक्तादयः ३०, तथा व्रतस्य परिवारः कः कियता परिवारेण सह व्रतमप्रहीदिति ३१, तथा सर्वायुष्कं ३२, चः समुच्चये तथा शिवगमनपरिवारो - मोक्षगमनसमये कः कियता परिवारेण तत्र गत इति वाच्यं ३३, एवं षष्ठगाथायां षडिशतितमादीनि त्रयस्त्रिंशत्तमान्तान्यष्टौ द्वाराण्यभिहितानि ॥ ७ ॥ जिनानां निर्वाणगमने यत्स्थानं तदभिधेयं ३४, तथा जिनान्तराणि - एक स्माज्जिनादपरो जिनः कियता कालव्यवधानेन सिद्ध इत्येवंरूपाणि ३५ चः समुच्चये, तथा तीर्थव्यव|च्छेदः - चतुर्वर्णश्रमण सङ्घस्य व्यवच्छेदः कदा कुत्र कथं जात इति भणनीयं ३६, तथा दश चतुरशीतिर्वा ज्ञानदर्शनादीनामायं - लाभं शातयन्तीत्याशातना वाच्याः ३७-३८, तथा प्रातिहार्याणि - प्रतिहारकर्माणि तीर्थकृतामभिधेयानि ३९, इति सप्तमगाथायां चतुस्त्रिंशत्तमादीनि एकोनचत्वारिंशत्तमान्तानि षट् द्वाराणि सूत्रितानि ॥ ८ ॥ चतुस्त्रिंशदतिशयानामर्द्दतो वाच्या ४० तथा दोषा अष्टादश आर्हन्त्यप्रतिपन्थिनो भणनीयाः ४१, तथाऽईच्चतुष्कं - नामार्हदादिभेदेनामिधेयं ४२, तथा निष्क्रमणे - दीक्षायां ४३ तथा ज्ञानेकेवलालोकोत्पत्तौ ४४ तथा निर्वाणे च-मोक्षगमनसमये जिनानां तपांसि वाच्यानि ४५, इत्यष्टमगाथायां चत्वारिंशत्तमादीनि पञ्चचत्वा| रिंशत्तमान्तानि षट् द्वाराणि सूत्रितानि ॥ ९ ॥ भाविनां - अग्रेतनोत्सर्पिण्यां भविष्यतां जिनेश्वराणां जीवा वक्तव्याः ४६, तथा सङ्ख्या ऊर्द्धाधस्तिर्यग्लोकसिद्धानां कियन्त ऊर्दूलोके कियन्तोऽधोलोके कियन्तश्च तिर्यग्लोके एकसमये सिद्ध्यन्तीति प्रतिपाद्यं ४७, तथा एकस्मिन् समये सिद्धानां सङ्ख्या अभिधेया एकस्मिन् समये कियन्तः सिद्ध्यन्तीत्यर्थः ४८, तथा ते सिद्धाः पञ्चदशभिर्भेदैः प्रतिपाद्या ४९ इति नवमगाथायां षट्चत्वारिंशदादीन्येकोनपञ्चाशत्तमान्तानि चत्वारि द्वाराण्युक्तानि ॥ १० ॥ अवगाहन्ते जीवा यस्यामित्यौ
tional
For Private & Personal Use Only
*4*9
21961-67
www.jainelibrary.org