________________
२७३द्वारनिर्देशः
प्रव० सा-
रोद्धारे तत्त्वज्ञानवि०
णादिकेऽनप्रत्ययेऽवगाहना-तनुस्तस्यामुत्कृष्टायामेकसमयेन कियन्तः सिद्ध्यन्ति ? जघन्यायां तस्यां कियन्तः ? मभ्यमायां च कियन्त | | इत्यभिधेयं ५० चः समुच्चये, तथा गृहिलिङ्गे-गृहस्थलिङ्गे अन्यलिङ्गे-जटाधराद्यन्यतीर्थिकलिङ्गे स्खलिङ्गे च-रजोहरणादिलिङ्गे एकसमयेन सिद्ध्यतां सङ्ख्या भणनीया ५१ इति दशमगाथायां पञ्चाशत्तमैकपञ्चाशत्तमे द्वे द्वारे अमिहिते ॥ ११ ॥ द्वात्रिंशदादयः आदिशब्दादष्टचत्वारिंशत्षष्टिद्विसप्ततिचतुरशीविषण्णवतियुत्तरशताष्टोत्तरशतानि गृह्यन्ते, ततश्चैकद्व्यादयो द्वात्रिंशदाद्यन्ताः सिद्ध्यन्ति निरन्तरं यावदष्टभिरधिकं शतं अष्टमिः समयैरेकैकोनैर्यावदेकसमयान्तं, अयमर्थः-एकस्मिन् समये एको द्वौ वा यावद् द्वात्रिंशत्सिध्यन्ति एवं द्वितीयादिष्वपि समयेषु अष्टमान्तेषु ततोऽवश्यमन्तरं, तथा पूर्ववत् त्रयस्त्रिंशदादय एकेकादयो वा सप्त समयान् यावनिरन्तरं सिद्ध्यन्ति ततोऽवश्यमन्तरमित्यादि स्वरूपं भणनीयं ५२ इत्येकादशगाथायां द्विपञ्चाशमेकं द्वारं ॥ १२ ॥ श्रीवेदे पुवेदे नपुंसकवेदे च सिद्ध्यतां सङ्ख्या वाच्या ५३, तथा सिद्धानां संस्थानं ५४, तथा अवस्थितिस्थानं च सिद्धानां कथनीयं ५५, इत्यस्यां द्वादशगाथायां त्रिपञ्चाशच्चतुष्पञ्चाशत्पञ्चपञ्चाशदूपाणि त्रीणि द्वाराणि ॥ १३ ॥ अवगाहना-तनुः चः समुच्चये तेषा-सिद्धानामुत्कृष्टा 1५६ तथा मध्यमा ५७ तथा जघन्या वाच्या ५८, तथा नामानि-अभिधानानि चतसृणामपि हुशब्दः प्राकट्ये शाश्वतजिननाथप्रहातिमानां ५९ इति त्रयोदशगाथायां पट्पश्चाशादीनि एकोनषष्ट्यान्तानि चत्वारि द्वाराणि ॥ १४ ॥ उपकरणानां सङ्ख्या जिनाना-जिनकVाल्पिकानां ६० तथा स्थविराणां-आच्छवासिवतिनां ६१ तथा साध्वीनां च वाच्या ६२, चः समुच्चये, तथा जिनकल्पिकानां सङ्योत्कृष्टा
एकस्यां वसतौ वाच्या ६३ इति चतुर्दशगाथायां षष्टितमादीनि त्रिषष्ट्यन्तानि चत्वारि द्वाराणि ॥ १५ ॥ षट्त्रिंशत् सूरीणां-आचायाणा गुणा वक्तव्याः ६४, तथा विनयो द्विपञ्चाशद्भेदप्रतिभिन्नो वाच्यः ६५, तथा चरणं सप्ततिभेदं वाच्यं ६६, तथा करणं सप्ततिभेद
Jain Education Celona
For Private & Personel Use Only
FMw.jainelibrary.org