________________
A
CANCCC
वाच्यं ६७, तथा जवाचारणानां विद्याचारणानां च गमनशक्तिरमिया ६८ इति पञ्चदशगाथायां चतुःषष्ट्यादीनि अष्टषष्ट्यन्तानि पञ्च द्वाराणि ॥ १६॥ परिहारविशुद्धिकानां परिहारविशुद्धितपसो वा स्वरूपं भणनीयं ६९, तथा 'अहालंद'त्ति यथालन्दकल्पकारिणो वाच्याः ७०, तथा प्रतिपन्नानशनस्य साधोयें निर्यामका-आराधनाकारकास्तेषामष्टचत्वारिंशद्भणनीया ७१, तथा पञ्चविंशतिर्भावनाः शुभाः ७२ तथा अशुभाः पञ्चविंशतिर्वाच्याः ७३ इति षोडशगाथायामकोनसप्ततितमादीनि त्रिसप्तत्यन्तानि पञ्च द्वाराणि ॥ १७ ॥ | सङ्ख्या महावताना-प्राणातिपातविरमणादीनां ७४, तथा कृतिकर्मणां-वन्दनकानां दिनमध्ये सङ्ख्या ७५, चः समुच्चये, तथा क्षेत्रेभरतादौ चारित्राणां-सामायिकादीनां सङ्ख्या ७६, तथा स्थितकल्पः ७७ तथाऽस्थितकल्पो वाच्यः ७८, चः समुच्चये, इति सप्तदशगाथायां चतुःसप्तत्यादीनि अष्टसप्तत्यन्तानि पञ्च द्वाराण्यभिहितानि ॥ १८ ॥ चैयानि-प्रतिमारूपाणि ७९ तथा पुस्तकानि ८० तथा दण्डकाः ८१ तृणानि ८२ तथा चर्माणि ८३ तथा दूष्याणि-वस्त्राणि ८४ एतानि पञ्च पञ्च प्रत्येकं वक्तव्यानि तथा | पञ्चावग्रहभेदाः ८५, तथा परि-सर्वतः सह्यन्ते मोक्षार्थिभिरिति परीषहाः ८६, तथा मण्डल्यः सप्त वाच्याः ८७ इत्यष्टादशगाथा
यामेकोनाशीत्यादीनि सप्ताशीत्यन्तानि नव द्वाराणि भणितानि ॥ १९ ॥ दशानां स्थानानां व्यवच्छेदः ८८, तथा क्षपकश्रेणिः ८९, 8 तथोपशमश्रेणिः ९०, तथा स्थण्डिलानां-साधुयोग्यभूविशेषाणां सहस्रोऽधिकश्चतुःसहितविंशत्या चतुर्विशत्यधिकसहस्र इत्यर्थः ९१ इत्येताकोनविंशतितमगाथायां अष्टाशीत्यादीनि एकनवत्यन्तानि चत्वारि द्वाराणि ॥२०॥ पूर्वाणां नामानि पदसङ्ख्यया संयुतानि-युक्तानि चतु
शापि कथनीयानि ९२, तथा निर्ग्रन्थाः-साधवः ९३ तथा श्रमणा-भिक्षुकाः ९४ प्रत्येकं पञ्च पञ्चैव वक्तव्या, इति विंशतितमगाथायां ४ द्विनवतित्रिनवतिचतुर्नवतिद्वाराणि त्रीणि ॥ २१ ॥ ग्रासैषणानां पञ्चकं ९५, तथा पिण्डे पाने च एषगाः सप्त ९६, तथा भिक्षाचर्या
Jain Education in
For Private & Personel Use Only
Jainelibrary.org