________________
+-
6
२७६ द्वारनिर्देशः
प्रव० सा
रोद्धारे तत्त्वज्ञानवि०
CART--54-5
विषये वीथीनां-मार्गाणामष्टकं ९७, तथा प्रायश्चित्तानि वाच्यानि ९८ इत्ये कविंशतितमगाथायां पञ्चनवत्यादीनि अष्टनवत्यन्तानि चत्वारि द्वाराणि ॥ २२ ॥ समाचारी ओघे-सामान्ये ९९ तथा पदविभागे-छेदग्रन्थोक्तस्वरूपे १०० तथा दशविधचक्रवाले-प्रतिदिनकरणीयसमाचारे संख्या वाच्या १०१, तथा निर्मन्थत्वं-साधुविशेषत्वं पञ्चवारान् भववासे-संसारावस्थाने १०२ इति द्वाविंशतितमगाथायां नवनवत्यादीनि व्यधिकशततमान्तानि चत्वारि द्वाराणि ॥ २३ ॥ साधूनां विहारस्वरूपं १०३, तथा अप्रतिबद्धश्च स विहारो विधातव्यः १०४, तथा जात कल्पोऽजातकरूपश्च वक्तव्यः, जाताः-गीतार्था भण्यन्ते अजाताश्च-अगीतार्थाः १०५, तथा परिष्ठापनोच्चारकरणयोदिक् १०६ इति त्रयोविंशतितमगाथायां व्यधिकशततमादीनि षडुत्तरशततमान्तानि द्वाराणि चत्वारि ॥ २४ ॥ अष्टादश पुरुषेषु १०७ तथा विंशतिः स्त्रीषु १०८ तथा दश नपुंसकेषु प्रव्राजनानर्हाः १०९, तथा विकलाङ्गस्वरूपाश्च ११० इति चतुर्विंशतितमगाथायां सप्तो. त्तरशततमादीनि दशोत्तरशततमान्तानि द्वाराणि चत्वारि ॥ २५ ॥ यत् मूल्यं यस्य तत् यन्मूल्यं यतीनां-मुनीनां कल्प्यं-कल्पनीयं वस्त्रं १११, तथा शय्यातरस्य पिण्डश्च कल्प्योऽकल्प्यो वेति ११२, तथा यावति सूत्रे सति सम्यक्त्वमवश्यम्भावि ११३, तथा निर्ग्रन्था | अपि चतुर्गतिका भवन्ति, चतस्रो नरकादयो गतयो येषां ते चतुर्गतिकाः ११४ इति पञ्चविंशतितमगाथायामेकादशोत्तरशततमादीनि चतुर्दशोत्तरशततमान्तानि चत्वारि द्वाराणि ॥ २६ ॥ क्षेत्रे तथा मार्गे तथा काले तथा प्रमाणे चातीतं-भणितप्रमाणात् क्षेत्रादेरतिक्रान्तं अकल्प्यं यत् तद्भणनीयं ११५-११६-११७-११८, तथा दुःखशय्याचतुष्कं ११९, तथा सुखशय्याचतुष्कं १२०, तथा त्रयोदश क्रियास्थानानि १२१ इति षडिंशतितमगाथायां पञ्चदशोत्तरशततमादीनि एकविंशत्युत्तरशततमान्तानि सप्त द्वाराणि ॥ २७ ॥ एकस्मिन् भवे बहुषु च भवेषु आकर्षा-विरूपाध्यवसायविशेषाश्चतुर्विधेऽपि सामायिके श्रुतसामायिक-सम्यक्त्वसामायिक-देशविरति०
॥८॥
Jan Education
For Private Personal use only
aainelibrary.org