________________
सर्वविरति०लक्षणे कियन्तो भवन्ति ? १२२, तथा शीलस्याङ्गभूताः-कारणभूता ये पदार्थास्तेषामष्टादशसहस्रा वाच्याः १२३, तथा नयाना-नैगमादीनां सप्तकं च १२४ इति सप्तविंशतितमगाथायां द्वाविंशत्युत्तरत्रयोविंशत्युत्तरचतुर्विशत्युत्तरशततमानि त्रीणि द्वाराणि ॥२८॥ वस्त्रग्रहणस्य विधानं १२५, तथा व्यवहारा-आगमादयः पञ्च १२६, तथा यथाजातं-चोलपट्टकादि १२७, तथा निशि जागरणे विधिः १२८, तथा आलोचनादायकस्य गुरोरन्वेषा-अन्वेषणा १२९ इत्यष्टाविंशतितमगाथायां पञ्चविंशत्युत्तरशततमादीनि एकोनत्रिंशदुत्तरशततमान्तानि पञ्च द्वाराणि ॥ २९ ॥ गुरुप्रमुखाणां क्रियतेऽशुद्धैः शुद्धैश्च वस्तुभिर्यावन्तं कालं प्रतिजागरणमिति शेषः १३०, तथा उपधेर्धावनकाल:-प्रक्षालनप्रस्तावः १३१, तथा भोजनस्य भागाः १३२, तथा वसतिशुद्धिः १३३ इत्येकोनत्रिंशत्तमगाथायां त्रिंशदुत्तरशततमादीनि त्रयस्त्रिंशदुत्तरशततमान्तानि चत्वारि द्वाराणि ॥३०॥ संलेखना-शरीरशोषणा द्वादश वर्षाणि १३४, तथा वृषभेण-बली| वर्दैन कल्पितेन वसतेस्रहणं १३५, तथोष्णस्य प्रासुकस्यापि जलस्य सचित्तताकाल: १३६, उष्णं-प्रासुकमपि जलं जातं कियता कालेन पुनः सचित्तं भवतीत्यर्थः, इति त्रिंशत्तमगाथायां चतुस्त्रिंशदुत्तरपञ्चत्रिंशदुत्तरपत्रिंशदुत्तरशततमानि त्रीणि द्वाराणि ॥ ३१ ॥ इह
षष्ठयाः पञ्चम्यर्थत्वात् तिरभ्यो तिरश्चां मानव्यो मानवानां देव्यो देवानां यद्गुणाः, यो गुणो-गुणकारो यासां ताः तथा, यावता गुणप्रकारेण तिर्यक्पुरुषादिभ्योऽधिकास्तिरच्यादय इत्यर्थः, यावन्मात्रेणाधिकाश्च सर्वाः स्त्रियो गुणकारादप्युद्धरिताः १३७ इत्येकत्रिंशत्तमगा-
थायां सप्तत्रिंशदुत्तरशततममेकं द्वारम् ॥ ३२ ॥ आश्चर्याणां दशकं १३८, तथा चतस्रो भाषाः १३९, तथा वचनानां षोडशकं १४०, तथा मासानां पञ्च भेदाः १४१, तथा भेदाः-प्रकारा वर्षाणां पञ्चैव १४२ इति द्वात्रिंशत्तमगाथायामष्टत्रिंशदुत्तरशततमादीनि द्विचत्वारिंशदुत्तरशततमान्तानि पञ्च द्वाराणि ।। ३३ ।। लोकस्वरूपं १४३, तथा संज्ञास्तिस्रः १४४ तथा चतस्रो वा १४५ तथा दश वा
For Private
Personel Use Only
Sr.jainelibrary.org.