Book Title: Pravachan Pariksha Part 02 Author(s): Dharmsagar Publisher: Rushabhdev Kesarimal Shwetambar Samstha View full book textPage 8
________________ श्रीप्रवचन परीक्षा ७ विश्रामे ॥६॥ BOOKONGONIS DIYOING DIGION सासणासु अदेविधुई पडिसेहपरायणं नवीणमयं । पयडिकयं पावुदया तत्थ जुड़ विगप्पिआ एवं ||४|| नाम्ना शीलगणदेवभद्रौ पौर्णिमीयकात् - पूर्णिमाकुपक्षान्निर्गतौ पल्लवपक्षे-अंचलपक्षे प्राप्तौ, पौर्णिमीयकैर्निष्काशितौ स्तनिकपक्षनिश्रां कृतवन्तावित्यर्थः, तौ च तत्राधीत्य लब्धाचार्यपदौ ततो निर्गतौ समये - प्रस्तावे शत्रुञ्जयस्य पार्श्वे - शत्रुञ्जयपरिसरे तयोः बृहद्गणमुनयः सप्ताष्टौ वा गणनिर्गता मिलिताः, तैश्च सर्वैरपि मिलित्वा दुर्ध्यातं दुष्टं पर्यालोचितं, यदि वयं किञ्चिन्नवीनं मतं प्ररूपयामः तदा शोभनमित्येवंरूपेण विचारितम्, अथ यथा विचारितं तदाह - शासनश्रुतदेवी - शासनदेवी श्रुतदेवी उपलक्षणात् क्षेत्रदेवता शासन सुरादयस्तेषां स्तुति:- "सुअदेवया भगवई" इत्यादिरूपा तस्याः प्रतिषेधे परायणं - तत्परं नवीनं मतं, प्रकटीकृतम्, एतावता यथा ध्यातं तथैव जनानां पुरस्तात्प्ररूपितमित्यर्थः, तत्र युक्तिर्विकल्पिता एवं वक्ष्यमाणलक्षणा इतिगाथात्रयार्थः॥ २-३-४ ॥ अथ तस्य कुयुक्तिमाह तित्थयरो असमत्यो जेसुवि कज्जेसु तेसु को अण्णो । किं हुज्जावि समत्थो ? ता कह सुअदेवयवराई ||५|| येषु कार्येषु तीर्थकरोऽसमर्थः - शक्तिरहितस्तेषु कृत्येषु किं कोऽयं - तीर्थकरादपरः समर्थों भवेद् ?, अपितु न भवेत्, ता - तर्हि श्रुतदेवता वराकी कथं भवेत् १ तस्माद् ज्ञानाद्यर्थं तस्याः प्रार्थनमकिञ्चित्करमित्यर्थ इतिगाथार्थः || ५ || एतादृगयुक्तिवक्ता कीडग् स्यादित्याह चाहअजुत्तीहिं मूढो मूढाण चक्कवहिसमो । न मुणइ वत्थुसहावं दिणयर दीवाइ आहरणा ||६|| इत्यादिकयुक्तिभिरर्थाद्भुवाणो मूढो मूढानां मध्ये चक्रवर्त्तिसमो - मूर्खशेखरो वस्तुस्वभावं - वस्तुस्वरूपं जगदुदरवर्त्तिपदार्थ HONGHONGKONGHOYOONGHOSION आगमिकमतोत्पच्यादिः ॥६॥Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 356