Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 9
________________ श्रीप्रवचनपरीक्षा ७ विश्रामे 11911 NOONG SHONGKON परिणतिं न जानाति, अयं भावः - अनन्तबलभृत्तीर्थकरो यद्यसमर्थस्तर्हि बहुप्रार्थितापि वराकी श्रुतदेवता कथं समर्था इति श्रुतदेवतास्तुतिर्नास्माकं सम्मतेत्यर्थः, तत्र वस्तुस्वरूपं न जानातीत्यत्र दृष्टान्तमाह - 'दिनकरे 'त्यादि, दिनकरदीपाद्युदाहरणाद्-अन्धकार| नाशने समर्थोऽपि दिनकर :- सूर्यः प्रदीपसाध्ये - भूमिगृहाद्यन्धकारनाशे न समर्थः, यः सामर्थ्यमधिकृत्याधिकः स सर्वत्रापि समर्थ एव स्याद् एवं नियमो नास्तीति दिनकरदीपदृष्टान्तेन श्रुतदेवतासाध्ये कार्येऽर्हन् समर्थ एव स्यादिति नियमाभावो दर्शितः, तथैव वस्तुस्वभावाद्, अत एव श्रीगौतमप्रबोधितोऽपि कर्षकः श्रीमहावीरदर्शनादर्शनादिशून्यः संसारं भ्रन्त इत्यागमप्रसिद्धेरितिगाथार्थः || ६ || अथ पुनरपि लोकसिद्धदृष्टान्तमाह - महफलओ सहगारो जंबूफलकारणंपि किं हुज्जा १ । कोहंडीफलहेऊ किं सहगारो समिद्धोऽवि १ ॥७॥ महाफलदोऽपि कलिकाले कल्पद्रुमोपमया फलदाताऽपि सहकारः किं जम्बूफलकारणमपि भवेद् ?, अपि तु न भवेत्, यद्वस्तु महत् सन्महाफलकारणं तत्तुच्छफलकारणं भवत्येवेति नियमो नास्त्येवेति दर्शितं किञ्चित्फलं महदपि तुच्छजन्यं महताऽपि जनयितुमशक्यमित्यत्र दृष्टान्तमाह - 'कोहंडी' ति कूष्माण्डीफलहेतुः किं समृद्धोऽपि वसन्तत पत्रमञ्जर्यादिसंयुक्तोऽपि सहकार :आम्रवृक्षः किं स्याद् ?, अपितु न स्यात्, कूष्माण्डी नाम वल्लीविशेषः, सा च सहकारादिमहावृक्षापेक्षया तुच्छा स्त्रीरूपाऽपि यन्महत्फलं ददाति तत्सहकारादिना केनापि दातुं न शक्यते, तेन यत्फलं श्रुतदेवतया दीयते तत्फलं केनापि दातुमशक्यम्, अत एव श्रीहेमाचार्येण सरस्वती समाराधिता प्रवचनप्रभावनाहेतुः संपन्नेत्यग्रे दर्शयिष्यते इति गाथार्थः ॥ ७॥ अथास्तामन्यत्, तीर्थकरे विद्यमानेऽपि तीर्थकरासाध्यं तदतिरिक्तजनसाध्यं चेति दर्शयति SONS ONGHOIGONIGOING O% आगमिक मतोत्प त्यादिः 11011

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 356