Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 12
________________ श्रीप्रवचनपरीक्षा ७ विश्रामे ॥१०॥ HONGKONGOSONGDHONGKONG दिस्तुति सिद्धिः जो पुण कत्थवि नियमो दीसह दव्वंमि न उण भावेऽवि । अण्णह पडिमापमुहाऽऽराहणमवि निष्फलं पावे ॥ ११ ॥ श्रुतदेवतायः पुनः कुत्रापि नियमो दृश्यते स द्रव्ये द्रव्यविषयोऽवगन्तव्यो द्रव्यं हि कनकादिलक्षणमन्नादिलक्षणं वा दीयमानं विद्यमानमेव-खसत्तायां वर्त्तमानमेव दीयते, न पुनरसत्, 'उप्पन्नेइ वा' इत्यादि मातृकापदरूपं यद्रव्यश्रुतं तद्गणधरेभ्यो विद्यमानं सदेव दीयते इति न व्यभिचारः, ननु तीर्थकर शासनदेवताभ्यां दीयमाने द्रव्यलिङ्गे व्यभिचारो, यतस्तयोरविद्यमानमेव द्रव्यलिङ्गं परेभ्यो दीयते इति चेत्सत्यं, तयोस्तथाविधकल्पत्वात्, तथाविधव्यतिकरातिरिक्तस्थले व्याप्तेर्नियमात् यद्वा यद्यपि तीर्थकृच्छ्रुतदेवताभ्यां रजोहरणादिकं लिङ्गत्वेन चारित्रबुद्ध्या स्वयं गृहीतं नास्ति तथापि द्रव्यत्वेन सद्भूतमेव दीयते, न पुनरसदपि, तस्माद्द्रव्यमन्तरेण द्रव्योत्पत्तिदानाद्यसंभवात् द्रव्यविषयो नियमोऽव्यभिचारेण सिद्ध्यति, न पुनर्भावेऽपि भावविषयोऽपि नियमः, न हि देयस्य भावस्य सद्भावो दातुरपि युज्यते, श्रुतज्ञानमाश्रित्य तीर्थेकृत्येव व्यभिचारः प्रागेव दर्शितः, अन्यथा यदि भावोऽप्यात्मनि सभेव दीयते इति नियमः स्यात्तर्हि प्रतिमाप्रमुखाराधनं - जिनप्रतिमाद्याराधनं निष्फलं प्राप्नुयाद्, यतः सम्यग्दृष्टिपरिगृहीता जिनप्रतिमा भाव ग्रामतया भणिता, आदिशब्दात् सारूपिकादयोऽपि ग्राह्याः, यदागमः - "तित्थयरो १ जिण २ चउदस ३ भिण्णे ४ संविग्ग ५ तह असंविग्गे ६ । सारुविअ७ वय८ दंसण ९ पडिमाओ १० भावगामा उ" ॥१॥ इतिश्रीबृहत्कल्पभाष्ये, तद्वत्यैकदेशो यथा - तीर्थकरा - अर्हन्तः जिना :- सामान्यकेवलिनः अवधिमनः पर्यायजिना वा चतुर्द्दशपूर्विणो दशपूर्विणश्च प्रतीताः 'भिण्ण' ति असंपूर्णदश पूर्वधारिणः संविप्राः - उद्यतविहारिण असंविशाः - तद्विपरीताः खारूपिका नाम श्वेतवाससः क्षुरमुण्डितशिरसो मिक्षाटनोपजीविनः पश्चात्कृतविशेषाः 'वय'त्ति प्रतिपन्नाणुव्रताः श्रावकाः 'दंसण'त्ति दर्शन श्रावकाः अविरतसम्यग्दृष्टय इत्यर्थः प्रतिमाः 112011

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 356