SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ७ विश्रामे ॥६॥ BOOKONGONIS DIYOING DIGION सासणासु अदेविधुई पडिसेहपरायणं नवीणमयं । पयडिकयं पावुदया तत्थ जुड़ विगप्पिआ एवं ||४|| नाम्ना शीलगणदेवभद्रौ पौर्णिमीयकात् - पूर्णिमाकुपक्षान्निर्गतौ पल्लवपक्षे-अंचलपक्षे प्राप्तौ, पौर्णिमीयकैर्निष्काशितौ स्तनिकपक्षनिश्रां कृतवन्तावित्यर्थः, तौ च तत्राधीत्य लब्धाचार्यपदौ ततो निर्गतौ समये - प्रस्तावे शत्रुञ्जयस्य पार्श्वे - शत्रुञ्जयपरिसरे तयोः बृहद्गणमुनयः सप्ताष्टौ वा गणनिर्गता मिलिताः, तैश्च सर्वैरपि मिलित्वा दुर्ध्यातं दुष्टं पर्यालोचितं, यदि वयं किञ्चिन्नवीनं मतं प्ररूपयामः तदा शोभनमित्येवंरूपेण विचारितम्, अथ यथा विचारितं तदाह - शासनश्रुतदेवी - शासनदेवी श्रुतदेवी उपलक्षणात् क्षेत्रदेवता शासन सुरादयस्तेषां स्तुति:- "सुअदेवया भगवई" इत्यादिरूपा तस्याः प्रतिषेधे परायणं - तत्परं नवीनं मतं, प्रकटीकृतम्, एतावता यथा ध्यातं तथैव जनानां पुरस्तात्प्ररूपितमित्यर्थः, तत्र युक्तिर्विकल्पिता एवं वक्ष्यमाणलक्षणा इतिगाथात्रयार्थः॥ २-३-४ ॥ अथ तस्य कुयुक्तिमाह तित्थयरो असमत्यो जेसुवि कज्जेसु तेसु को अण्णो । किं हुज्जावि समत्थो ? ता कह सुअदेवयवराई ||५|| येषु कार्येषु तीर्थकरोऽसमर्थः - शक्तिरहितस्तेषु कृत्येषु किं कोऽयं - तीर्थकरादपरः समर्थों भवेद् ?, अपितु न भवेत्, ता - तर्हि श्रुतदेवता वराकी कथं भवेत् १ तस्माद् ज्ञानाद्यर्थं तस्याः प्रार्थनमकिञ्चित्करमित्यर्थ इतिगाथार्थः || ५ || एतादृगयुक्तिवक्ता कीडग् स्यादित्याह चाहअजुत्तीहिं मूढो मूढाण चक्कवहिसमो । न मुणइ वत्थुसहावं दिणयर दीवाइ आहरणा ||६|| इत्यादिकयुक्तिभिरर्थाद्भुवाणो मूढो मूढानां मध्ये चक्रवर्त्तिसमो - मूर्खशेखरो वस्तुस्वभावं - वस्तुस्वरूपं जगदुदरवर्त्तिपदार्थ HONGHONGKONGHOYOONGHOSION आगमिकमतोत्पच्यादिः ॥६॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy