Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्रीप्रवचनपरीक्षा ११ विश्रामे ॥२७०॥
DIGIC DIGIGIGHONGHONGHO
मिथ्यादृशामुपबृंहणार्थं वा निमत्रणप्रतिश्रवणादिभिर्ज्ञानदर्शनातिक्रमादयोऽप्यायोज्या इति इतिश्रीस्थानांगवृत्ती, अत्र पुस्तकचैत्यादीनामुपघाताय निमन्त्रणप्रतिश्रवणेऽतिक्रमः १ पदभेदे च व्यतिक्रमः २ गृहीते पुनरतिचारः ३ विनाशिते च चानाचारो ४ भणितः, एवं मिथ्यादृशां उपबृंहणार्थं निमन्त्रणप्रतिश्रवणादिभिर्भाष्यं, एवं च सति कदाचित् प्रमादवशात् अतिचारादयः समुत्पन्नास्तदानीं तेन प्रायश्चित्तं प्रतिपत्तव्यं भवति, तच्च प्रायश्चित्तं प्रमादादिना पुस्तकचैत्यादीनां विनाशे नवीननिर्मापणमेव तस्य शुद्धिहेतुरिति जिनैरभिहितं, धर्मोपकरणस्य हान्या धर्मस्यैव हानिरिति तत्साधनमेव प्रगुणीकर्त्तव्यं, नन्वेवं कथमिति चेदुच्यते, यतो यथा प्राणातिपाताद्यन्यतराश्रवपरिसेवनाजन्यपापस्य प्रायश्चित्तं ज्ञानाद्याराधनमेवोक्तं तथा ज्ञानादिविराधनाजन्यस्यापि पातकस्य प्रायश्चित्तं तद् युक्तं, परं ज्ञानविराधनाजन्यस्य पातकस्य दर्शनाराधनापेक्षया ज्ञानाराधनमेव प्रायश्चित्तं श्रेयः, लोकेऽपि प्रतिकूलाद्याचरणेन यो दुमितोऽनर्थहेतुः स एवानुकूलाचरणेनानुकूलयितव्यो, नान्यः, तज्जन्यानर्थस्य तेनानपायात् तेन ज्ञानोपकरणस्य पुस्तकादेर्विनाशे पुस्तकाद्येष लेखनीयं, प्रतिमादिविनाशे च तदेव निर्मापणीयं, कर्मवशात् चारित्रोपघाते खयं चरित्रमेव पालनीयमित्युत्सर्गपदं, अपवादपदे च शक्त्यनुसारेण यथागममन्यथाऽपि तच्चाराधनं जिनेन्द्राज्ञया, आज्ञा पुनरुत्सर्गापवादाभ्यां विना न भवेत्, यथा तीर्थकृतोत्सर्गापवादावुपदिष्टौ तथैव प्रवर्त्तने जिनाज्ञया ज्ञानाद्याराधनमितिभाव इति गाथार्थः ||२३|| अथ ज्ञानाद्याराधनं जिनाज्ञयैव भवति, परं पुस्तकप्रतिमादिनिर्मापणं तु न विधिवादरूपजिनाज्ञया, किंतु चरितानुवादेनेतिपाशस्याशां पराकर्तुमाहणाणस्सव आराहणमुवगरणायारपालणेहिं भवे । एवं दंसणचरिआणमण्णह विराहणा भणिआ ||२४|| 'णाणस्स 'त्ति ज्ञानस्याप्याराधनं उपकरणाचारपालनाभ्यां भवेत्, तत्रोपकरणानि पुस्तकपुस्तकसाधनमषीलेखिन्यादीनि
Jain Educationa International
For Personal and Private Use Only
LONCHOK
HORONGHORONGHONGKON
विविधवादविचारः
॥२७०॥
www.jainelibrary.org

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356