Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
परीक्षा ११ विश्रामे
॥२९९॥
प्रकार
$9%%%99%%T«Q%%@#O%%&T
व्यत्यादयोऽपि स्युरिति गाथार्थः || ५९॥ अथ वर्त्तमानकालापेक्षया विधिवादे उदाहरणमाह
जइ सम्मं जिणधम्मं करिज्ज सो हुज्जत्वस्स वेमाणी । एवं पगोअवयणं असंभवपएऽवि संभवइ ॥ ६० ॥ यदि जिनधर्मं सम्यग् कुर्य्यात् तर्हि अवश्यं विमानी - विमानानां समूहो विमानं तद् विद्यते यस्य स वैमानी, इंद्र इत्यर्थः, भवेत्, एवं यद्यालिंगितविधिवादप्रयोगवचनमसंभवपदेऽपि - असंभावितस्थानेऽभव्यादावपि संभवति, यद्यालिंगितवाक्ये आरोपस्यैव प्राधान्यात्, आरोपस्तु सर्वत्रापि समान एवेति गाथार्थः || ६० || अथ कार्यकारणभावमूलकविधिवादोदाहरणमाहसुहकामो जिणपूअं करिज्ज विहिणेव विहीवि सुगिहीणं । भणिआ जिणेण न उणं मुणीण पुप्फाइहेऊहिं ॥ ६१ ॥ सुखकामो जिनपूजां विधिना कुर्यात्, अत्र सुखजिनपूजयोः कार्यकारणभावात् सप्तमीयात्प्रयोगः, तत्रापि विधिनैव कृता जिनपूजा सुखहेतुः, नान्यथेति, विधिरपि जिनेन सुगृहिणां श्रावकाणां भणितः, द्रव्यस्तवकरणविधिः सुश्रावकाणामेव स्यात्, विधिरपि कैः कृत्वेत्याह- पुष्पादिहेतुभिः, शोभन पुष्पचंदनादिपूजाद्रव्यैरित्यर्थः, न पुनरयं विधिर्मुनीनां साधूनां भणितः, मुनीनां तु श्रावको क्तविधिना कृताऽपि पूजा - चातुर्गतिकसंसारपरिभ्रमणहेतुरेवेति न तत्र कार्यकारणभाव:, सुगृहीति श्रावकग्रहणेनोत्सूत्र भाषिकृताऽपि न सुखहेतुः किन्त्वनंतसंसारहेतुरेवेति सूचितं एतच्च प्रागुक्तमिति गाथार्थः ॥ ६१ ॥ अथ पुनरपि विधिवादे उदाहरणद्वयमाह - हिंसाइपरो जीवो पाविज्जा निरयपमुहदुहजोणिं । पीएज पुट्टिकामो घर्यपि नीरो अदढदेहो ||६२|| हिंसादिपरः- हिंसामृषादत्तात्रह्मपरिग्रहेषु तत्परः - आसक्तो जीवः - प्राणी निरयप्रमुखदुःखयोनिं - नरकतिर्यगादिदुर्गतिं प्राप्नुयात्, अत्र नरकादिकुयोनेः कारणं हिंसाद्याश्रव एवेति कार्यकारणभावे सप्तमी विधिवादे, तथा नीरोगडढशरीरः पुष्टिकामो घृतं
Jain Educationa International
For Personal and Private Use Only
ONGHOL
DIGHONORONGHOGY ON
त्रिविधवादसम्यक्ता
।। २९९ ।।
www.jainelibrary.org

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356