Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 307
________________ | उपसंहारः श्रीप्रवचनपरीक्षा ॥३०॥ KOLIGHAGHAGHORSROIGHOROROL | पिंडीकृत्य निर्मितैकमृतीनां श्रीगुरुणां ये भक्ताः श्रावकास्तेषां प्राग्जन्मोपार्जितशुभकर्मप्रेरणया भाविन्या च तथाविधभवितव्यतयैव | तथाविधभक्त्युल्लासः संभवति, यदागमः-"पुण्णेहिं चोइआ पुरकडेहिं सिरिभायणं भविअसत्ता। गुरुमागमेसिभद्दा देवयमिव पज्जुवासंति ॥१॥"त्ति गाथार्थः ॥६८॥ अथैतत्प्रकरणकर्तृनामगर्भितामाशिरमिधायिकां गाथामाहइअ सासणउदयगिरि जिणभासिअधम्मसायराणुगयं। पाविअ पभासयंतो सहस्सकिरणो जयउ एसो॥१९॥ इय कुवाखकोसियसहस्सकिरणमि सिरिहीरविजयसूरिदत्तपवयणपरिक्षावरनामंमि पासचंदमय निराकरणनामा इक्कारसमो विस्सामो सम्मत्तो ॥ग्रन्थाग्रं १२०५॥ इति-अमुना प्रकारेण एषोऽध्यक्षसिद्धः सहस्रकिरणः, पदैकदेशे पदसमुदायोपचारात् कुपक्षकौशिकसहस्रकिरणो जयतु-जीयादित्याशीरुपदर्शितेति संबंधा, आशीरपि तत्कृत्योद्भावनपुरस्सरमेध भवति इत्याह, किं कुर्वन् जयतु?-प्रभासयन्-प्रकाशं कुर्वन् , अर्थात् जीवलोकं,अन्योऽपि सूर्यो जीवलोकं प्रकाशयन्नेवाशीर्भाग् भवति,तथाऽयमपि, प्रकाशमपि किं कृत्वा करोतीत्याह-'सासणेत्यादि, शासनं-जैनतीर्थ तद्पो य उदयगिरिः-उदयाचलो निषधवर्षधर इतियावत् तं प्राप्य-तच्छिखरमासाद्य, अन्योऽपि सूर्यो निषधशिखरमासाद्य प्रकाशं कुरुते तथाऽयमपि जैनतीर्थ प्राप्यैव प्रकाशयति, नान्यथा, किंलक्षणं शासनोदयगिरि ?-'जिनभाषितधर्मसागरानुगतं' जिनेन-अर्हता भाषितो यो दानादिलक्षणो धर्मस्तद्पो यः सागरः-समुद्रस्तं प्रत्यनुगतः-प्राप्तः संबद्धो-| |ऽनुकारी वेत्यर्थः, निषधोऽपि समुद्रसंबद्धो भवति, उभयतोऽपि समुद्रस्पर्शीत्यर्थः, अथवा तदनुकारी समुद्रसदृशः,यथा सूर्यः समुद्रे | मंडलानि कुरुते तथैव निषधेऽपि, यदुक्तं-"तेसही निसढंमि अदुन्नि अबाहा दुजोअणंतरिआ। एगुणवीसं च सयं सूरस्स य मंडला FOROHOROHONSHOTOHOTOHOTHO ॥३०॥ For Personand Private Use Only

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356