Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 289
________________ श्रीप्रवचनपरीक्षा ११ विश्रामे ॥२८७॥ D&T/DIG!0%F}O?F÷0%THONGKONG क्ष्यन्ते तजन्यफलाभावात् एवं निद्राऽपि संयमपालनहेतुरुपकरणमिव न प्रमाद इति गाथार्थः ।। ३६ ।। अथ प्रकारान्तरेणापि तथाऽऽहअहवा जह असणाई संजमहेउ मुणिदेहरकखठ्ठा । भणिअं तहेव निद्दा अण्णह दोण्हंपि नो आणा ||३७|| अथवेति प्रकारांतरद्योतने, अशनादिः संयमहेतुमुनिदेहरक्षार्थं - संयमस्य हेतुर्यो मुनिदेह :- साधुशरीरं तस्य रक्षार्थ, भणितं जिनैरितिगम्यं तथैव निद्रा अशनादिवत् साधूनां निद्रापि शरीररक्षार्थमेव, एवमपि यदि निद्रा आज्ञा न भवेत् तर्हि द्वयोरपि आज्ञा न भवेत्, न चेष्टापत्तिः, 'अहो जिणेहिं असावजा वित्ती साहूण देसिआ । मुकूखसाहण हेउस्स, साहुदेहस्स धारण || || ति | प्रवचनबाधा स्यादिति गाथार्थः ||३७|| अथ साधूनां निद्रा प्रमादोऽपि भवति तथा दृष्टान्तयति जह आणाए रहिओ भुंजंतो असणपाणमाईणि । भणिओ मुणी पमाई तह निद्द पगामपडिसेवी ||३८|| यथा आज्ञया रहितोऽशनादीनि - अशनपानखादिमखादिमवस्त्र पात्रादीनि भुंजानो मुनिः प्रमादी- पापश्रमणो भण्यते तथा निद्रां प्रकामसेवी - दिवा रात्रौ वा यथासुखं खापशीलः प्रमादी स्यात्, यदागमः - 'जे केई पव्वइए निद्दासीले पगामसो भुच्चा । पिचा सुहं सुअई, पावसमणुति बुच्चति ॥ १ ॥ त्ति श्रीउत्तरा० इति गाथार्थः || ३८ | | अथोत्सर्गे निद्रास्वरूपे निरूपितेऽपवादेन निद्रा कथं भवतीत्याहअववाए पुण थेरा दिवावि कुव्वंति तित्थगरआणा । सा चैव य सुगुरूणं आणा खलु णाणमाईणि ॥ ३९ ॥ अपवादे पुनः स्थविरकल्पिकाः दिवाऽपि - दिवसेऽपि, न केवलं रात्रावेवेत्यपिशब्दार्थः, कुर्व्वन्ति साधव इति गम्यं, किंभूता सा निद्रा १तीर्थकराज्ञा, तीर्थकृदाज्ञारूपेत्यर्थः 'सा चैव य'त्ति सैव च निद्रा सुगुरूणां सुधर्मादीनामपि आज्ञा खलुर्निश्वये आज्ञैव, ज्ञानादीनि, गुरुपारतन्त्र्यं हि ज्ञानदर्शनचारित्राणीति वचनादिति गाथार्थः || ३९ || अथ गाथाद्वयेन प्रमादाप्रमादयोः पारमार्थिकं खरूपमाह Jain Education International For Personal and Private Use Only HONORS HOROHONGKONGHO निद्रायाः प्रमादाप्रमादते ॥२८७॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356