Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्रीप्रवचनपरीक्षा ११. विभामे ॥२९६ ॥
PRORONT
OG ONGNGH HONGKONGHO
स्वात्मन एव विडबनाहेतु:, तत्र हेतुमाह- 'जं संवर' ति यत् यस्मात् कारणात् सम्यक्त्वं संवरो भणितः, यदागमः- “पंच संवरदारा पं० तं०- सम्मत्तं १ विरती २ अपमाओ ३ अकसातित्तं ४ अजोगित्तं ५” ति श्रीस्थानांगे, एतड्डीकादेशो यथा - तथा संवरणंजीवतडागे कर्म्मजलस्य निरोधनं संवरः तस्य द्वाराणि - उपायाः संवरद्वाराणि, मिथ्यात्वादीनामाश्रवाणां क्रमेण विपर्ययाः सम्यक्त्वविरत्यप्रमादाकषायित्वायोगित्वलक्षणाः प्रथमाध्ययनवत् व्याख्येया इति, न च सम्यक्त्वं संवरद्वारतयोक्तं, परं स्वयं संवरो न भविष्यतीति शंकनीयं, अकषायित्वायोगित्वयोरपि तथात्वापत्तेः तस्मात् द्वारद्वारवतोरैक्यमेवात्र बोध्यमिति, अत्र सम्यक्त्वं संवरो भणितस्तदुपकरणव्यापारः - तस्य - सम्यक्त्वस्योपकरणानि - जिन भवन जिनबिंबानि, उपकरणानि हि व्यापारवत्येव फलवंतीति तेषामुपकरणानां व्यापारो द्रव्यस्तवः उपलक्षणात्तदनुकूलप्रवृत्यादिकं सर्व्वमपि बोध्यं तथा साधुपूजादि सुगंधादिना पूजनं, | यदागम:- "तित्थगराण भगवओ पवयण पावयण अईसइडीणं । अहिगमणनमणदरिसण कित्तणसंपूअणाथुणणा ॥ १ ॥ जम्मामिसे अ निकूखमण चरणनाणुप्पयाण निव्वाणे । दिअलोयभवणमंदरनंदीसरभोमनगरेषु ||२|| अठ्ठावयमुते गयग्गपयए अ धम्मचक्के अ । पासरहावत्तणयं चमरुप्पायं च वंदामि ||३|| इति श्रीआचारांग निर्युक्तिः दर्शनभावनाध्ययने, एतद्वृत्तियथा "दर्शनभावनार्थमाह- 'तित्थयर' गाहा, तीर्थकृतां भगवतां प्रवचनस्य- द्वादशांगस्य गणिपिटकस्य तथा प्रावचनिनां - आचार्यादीनां युगप्रधानानां तथाऽतिशयिनां - ऋद्धिमतां केवलिमनःपर्यायावधिचतुर्दशपूर्वविदां तथाऽऽमर्षौषध्यादिप्राप्तद्धनां यदभिगमनं गत्वा च नमनं नत्वा दर्शनं तथा गुणोत्कीर्त्तनं संपूजनं गंधादिना स्तोत्रं - स्तवनमित्यादिका दर्शनभावना, अनया हि दर्शनभावनया नवरं भाव्यमानया दर्शनशुद्धिर्भवतीति, 'किंचे 'त्यादि प्रागुक्तं बोध्यं, अत्र साधूनां सुगंधादिना पूजनेनः सम्यक्त्वनैर्मल्यमुक्तं,
For Personal and Private Use Only
Jain Educationa International
पूजायाः संवर हेतुता
॥२९३॥
www.jainelibrary.org.

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356