Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 278
________________ श्रीप्रवचनपरीक्षा ११ विश्रामे ॥२७६॥ OHORONGHOOK DIGHONGKONGH संकिले से दंसणसंकिलेसे चरितसंकिलेसे" इत्यादि, अत्र ज्ञानाद्याराघने जिनाज्ञा विराधने च नेति संपन्ने साधर्मिकवात्सल्यादिकमपि जिनाज्ञयैव सिद्धं तदा पाशस्य कदाशा दूरत एवापास्तेति गाथार्थः ||२४|| अथ ज्ञानादीनामुपकरणानि व्यक्त्या सूत्रत एवाहपोत्थाई उवगरणं णाणस्स तहा जिनिंदभवणाई । दंसणउवगरणं खलु पुत्तिप्पमुहा य चरणस्स ||२५|| पुस्तकादि ज्ञानस्योपकरणं आदिशब्दात् नीरोगशरीरादिकं प्रागेवोक्तं बोध्यं तथा जिनेन्द्र भवनादि दर्शनोपकरणं, आदिशब्दात् जिनप्रतिमादिग्रहः, खलु निश्वये, 'पुत्तिप्पमुह 'त्ति मुखवस्त्रिकाप्रमुखं, आदिशब्दात् रजोहरणकल्पादिग्रहस्तच्चारित्रोपकरणमिति, ननु ज्ञानदर्शनाभ्यां विना चारित्रस्यैवासंभवात् यथा ज्ञानदर्शने साधूनां चारित्रहेतू एव भवतस्तथा तदुपकरणान्यपि चारित्रोपकरणान्येव साधूनां भवन्तु, चारित्रस्यैवोपष्टंभकत्वात् इति चेत्, सत्यं, ज्ञानदर्शनोपकरणानां साक्षात् ज्ञानदर्शनयोरेव हेतुत्वात्, चारित्रस्यापि परम्परया तथात्वेऽपि मुख्यवृत्तिमधिकृत्य तथैव व्यवहारस्य युक्तत्वात्, चारित्रव्यतिरिक्तयोरपि ज्ञानदर्शनयोरुपकर्तृत्वाच्च पृथगेव व्यपदेशो युक्त इति गाथार्थः ||२५|| अथ उत्सर्गापवादयोरुत्सर्गत एव यथासंभवं स्थानकान्याह - उस्सग्गो मुणिधम्मे अववायपर्यमि इअरमग्गो य । इक्किक्कोऽवि अ दुविहो एवं सिद्धंतसुपसिद्धो ||२६|| मुख्यवच्या उत्सर्गो मुनिधर्म्मः - साधुमार्गो, यतः तीर्थकृतः प्रथममुत्सर्गतः पंचमहाव्रतात्मकं साधुमार्गमेवोपदिशंति, तत्राक्षमानुद्दिश्यापवादपदे श्रावकसंविग्नपाक्षिक मार्गद्विकमुपदिशंति, अतः साधुमार्गापेक्षया तावपवादरूपावेव तेषु त्रिष्वप्युत्सर्गापवादसम्भवात् प्रत्येकमेकैकोऽपि च द्विविधः, एवम् अमुना प्रकारेण सिद्धान्तसुप्रसिद्धः - जिनप्रवचनेऽतिशयेन प्रसिद्धः, अयं भावः| मुख्यवृच्योत्सर्गरूपोऽपि साधुमार्गोऽनेकापवादपदसंयुक्तः स्थविरकल्पः, स्थविरकल्पे ह्युगत्सर्गापवादयोस्तौल्यात्, यदागमः 'जावइआ Jain Educationa International For Personal and Private Use Only DIGHOKISHO% आचार स्योपदेशः ॥२७६॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356