Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 276
________________ श्रीप्रवचन परीक्षा ११ विश्रामे ॥२७४॥ सामाचारीग्रन्थोपलभ्यं परंपरागतं चेति । तथा मंडलीसंभोगः पाशस्य केनापि साधुगुरुणा सह नासीत् कथं खशिष्येभ्यो मंडली - संभोगकारकः सम्भवेत् , एवं ग्रहणासेवनाशिक्षाऽश्रुत्या स्वयं पाशः कथं परेभ्यः तच्छिक्षकः, ननु पाशचन्द्रस्य शालायां ग्रहणादिशिक्षा जाता भविष्यतीति चेत् मैवं, स्वशिष्येभ्यो ग्राह्यमाणायाः शिक्षायाः क्वाप्यग्रहणात्, न हि स्वमताभिमतशिक्षायाः उपदेशकः कोऽप्यासीत्, तथा प्रायश्चित्तदानमपि तन्मते मूलतोऽपि नास्ति, प्रायश्चित्तग्रन्थानामपि निशीथव्यवहारादीनामनंगीकारात्, अंगीकारे वा स्वयमप्राप्तप्रायश्चित्तः कथं प्रायश्चित्तदानसमर्थ इत्याद्यनया दिशा पाशमतं न सूत्रादि स्पर्शत्यपि इति प्रसंगतो बोध्यं, अथ प्रकृतमुच्यते यथोपकरणानि ज्ञानस्य भणितानि तथा आचारोऽपि ज्ञानस्य कालाद्यष्टप्रकारः, यदागम:- "दुविहे आयारे पं० तं०-जाणायारे चैव नोनाणायारे चेवे" ति श्रीस्थानांगसूत्रं, एतट्टीका यथा- 'दुबिहे आयारे' इत्यादि सूत्रचतुष्टयं कंठ्यं, नवरमाचरणं आचारो-व्यवहारो ज्ञानं श्रुतज्ञानं तद्विषय आचारः कालादिरष्टविधो ज्ञानाचारः, आह च- "काले विणए बहुमाणे उवहाणे चैव तहय निण्हवणे । वञ्जणअत्थतदुभये अढविहो नाणमायारो || १ || "त्ति श्रीस्थानांगटीकायां, अत्र काले विणएत्ति गाथानिर्यु - क्तिकृता श्री भद्रबाहुखामिना श्रीदशवैकालिकनिर्युक्तावभिहिता, तद्द्व्याख्यानं यथा - "काले, यो यस्य श्रुतस्य काल उक्तः तस्य तस्मिन्नेव स्वाध्यायः कर्तव्यो, नान्यदा, श्रुतग्रहणं कुर्व्वता गुरोर्विनयः कार्यः, तथा श्रुतग्रहणोद्यतेन गुरोर्बहुमानः कार्यो, बहुमानः आन्तरः भावप्रतिबन्धः, श्रुतग्रहणमभीप्सता उपधानं कार्यम्, उपधानं तपः, तद्धि यद् यत्राध्यायने आगाढादियोगलक्षणमुक्तं तत्तत्र कार्यं तथा गृहीते आशातना अनिह्नवः कार्यः, यद्यस्य सकाशेऽधीतस्तत्र स एव कथनीयः, व्यंजनार्थतदुभयान्याश्रित्य | भेदो न कार्यः, अष्टविधो ज्ञानाचारो - ज्ञानासेवनाप्रकार" इति, अत्र ज्ञानाचारे आगाढादियोगोद्वहनादिकं भणितं, एतच्च पाशप्रमुख Jain Educationa International For Personal and Private Use Only आचारस्योपदेशः ॥२७४॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356