Book Title: Pratishtha Pujanjali
Author(s): Abhaykumar Shastri
Publisher: Kundkund Kahan Digambar Jain Trust
View full book text
________________
228
n
प्रतिष्ठा पूजाञ्जलि
शान्तिं शान्तिजिनेन्द्र शांतमनसस्त्वत्पादपद्माश्रयात् । संप्राप्ताः पृथिवीतलेषु बहवः शान्त्यर्थिनः प्राणिनः ।। कारुण्यान्मम भाक्तिकस्य च विभो दृष्टिं प्रसन्नां कुरु । त्वत्पादद्वयदैवतस्य गदतः शांत्यष्टकं भक्तितः ॥ 8 ।। (चौपाई ) शांतिजिनं शशिनिर्मलवक्त्रं शीलगुणव्रतसंयमपात्रं । अष्टशतार्चितलक्षणगात्रं नौमि जिनोत्तममंबुजनेत्रम् ॥ 9 ॥ पंचमभीप्सितचक्रधराणां पूजितमिन्द्रनरेन्द्रगणैश्च । शांतिकरं गणशांतिमभीप्सुः षोडशतीर्थंकर प्रणमामि ।।10।। दिव्यतरु : सुरपुष्पसुवृष्टिर्दुन्दुभिरासनयोजनघोषौ । आतपवारणचामरयुग्मे यस्य विभाति य मण्डलतेजः ।।11।। तं जगदर्चितशांतिजिनेन्द्रं शांतिकरं शिरसा प्रणमामि । सर्वगणाय तु यच्छतु शांतिं मह्यमरं पठते परमां च ।।12।।
(वसंततिलका)
| येऽभ्यर्चिता मुकुटकुण्डलहाररत्नेः, शक्रादिभिः सुरगणैः स्तुतपादपद्मा । | ते मे जिना: प्रवरवंशजगत्प्रदीपाः, तीर्थंकराः शततशांतिकरा भवन्तु । ॥13 ॥
(इन्द्रवज्रा )
U
संपूजकानां प्रतिपालकानां यतीन्द्रसामान्यतपोधनानां ।
देशस्य राष्ट्रस्य पुरस्य राज्ञः करोतु शांतिं भगवान् जिनेन्द्रः ।।14।।
(शार्दूलविक्रीडित)
क्षेमं सर्वप्रजानां प्रभवतु बलवान्धर्मिको भूमिपालः । काले काले च वृष्टिं बिकिरतु मघवा व्याधयो यांतु नाशम् ।। दुर्भिक्षं चौरमारी क्षणमपि जगतां मास्मभूज्जीवलोके । जैनेन्द्र धर्मचक्रं प्रभवतु सततं सर्वसौख्यप्रदायि ।।15 ।।

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240