Book Title: Prameyratnamala
Author(s): Shrimallaghu Anantvirya, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad

Previous | Next

Page 273
________________ ४८ २३० प्रमेयरत्नमालायां সুধাক্কা पृष्ठाङ्काः ८. अतज्जन्यमपि तत्प्रकाशकं प्रदीपवत् । ९. स्वावरणक्षयोपशमलक्षणयोग्यतया हि प्रतिनियतमथं व्यवस्थापयति । ४९ १०. कारणस्य च परिच्छेद्यत्वे करणादिना व्यभिचारः । ११. सामग्रीविशेषविश्लेषिताखिलावरणमतीन्द्रियमशेषतो मुख्यम् । १२. सावरणत्वे करणजन्यत्वे च प्रतिबन्धसम्भवात् । तृतीयः समुद्देशः ८३.१५३ १. परोक्षमितरत् । २. प्रत्यक्षादिनिमित्तं स्मृतिप्रत्यभिज्ञानतर्कानुमानागमभेदम् । ३. संस्कारोबोधनिबन्धना तदित्याकारा स्मृतिः। ४. स देवदत्तो यथा। ५. दर्शनस्मरणकारणकं सङ्कलनं प्रत्यभिज्ञानम् । तदेवेदं तत्सदृशं तद्वि____ लक्षणं तत्प्रतियोगीत्यादि । ६. यथा स एवायं देवदत्तः । गोसदृशो गवयः । गोविलक्षणो महिषः । इदमस्माद् दूरम् । वृक्षोऽयमित्यादि । ७. उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानमूहः । ८. इदमस्मिन् सत्येव, भवत्यसति तु न भवत्येवेति च । ९. यथाऽग्नावेव धूमस्तदभावे न भवत्येवेति च । १०. साधनात्साध्यविज्ञानमनुमानम् । ११. साध्याविनाभावित्वेन निश्चितो हेतुः । . १२. सहक्रमभावनियमोऽविनाभावः । १३. सहचारिणोाप्यव्यापकयोश्च सहभावः । १४. पूर्वोत्तरचारिणोः कार्यकारणयोश्च क्रमभावः । १५. तत्तिन्निर्णयः। १६. इष्टमबाधितमसिद्ध साध्यम् । १७. सन्दिग्धविपर्यस्ताव्युत्पन्नानां साध्यत्वं यथा स्यादित्यसिद्धपदम् । १८. अनिष्टाध्यक्षादिबाधितयोः साध्यत्वं माभू दितीष्टाबाधितवचनम् । १९. न चासिद्धवदिष्टं प्रतिवादिनः । २०. प्रत्यायनाय हीच्छा वक्तुरेव । २१. साध्यं धर्मः क्वचित्तद्विशिष्टो वा धर्मी । २२. पक्ष इति यावत् । २३. प्रसिद्धो धर्मी। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280