Book Title: Prameyratnamala
Author(s): Shrimallaghu Anantvirya, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad

Previous | Next

Page 275
________________ २३२ सूत्राङ्काः पृष्ठाङ्काः ५४. उपलब्धिविधिप्रतिषेधयोरनुपलब्धिश्च । ११३ ५५. अविरुद्धोपलब्धिविधौ षोढा व्याप्यकार्यकारणपूर्वोत्तरसहचरभेदात् । ११३ ५६. रसादेकसामग्रयनुमानेन रूपानुमानमिच्छद्भिरिष्टमेव किञ्चित्कारणं प्रमेयरत्नमालायां हेतुयंत्र सामर्थ्याप्रतिबन्धकारणान्तरावैकल्ये । ११४ ५७. न च पूर्वोत्तरचारिणोस्तादात्म्यं तदुत्पत्तिर्वा कालव्यवधाने तदनुपलब्धेः ११५ ५८. भाव्यतीतयोर्मरणजाग्रद्बोधयोरपि नारिष्टोद्बोधौ प्रति हेतुत्वम् । ५९. तद् व्यापाराश्रितं हि तद्भावभावित्वम् । ११६ ११६ ११७. ६०. सहचारिणोरपि परस्परपरिहारेणावस्थानात्सहोत्पादाच्च । ६१. परिणामी शब्दः कृतकत्वात्, य एवं स एवं दृष्टो यथा घटः कृतकश्चायम्, तस्मात्परिणामीति । यस्तु न परिणामी स न कृतको दृष्टो यथा बन्ध्यास्तनन्धयः, कृतकश्चायम् । तस्मात्परिणामी । ६२. अस्त्यत्र देहिनि बुद्धिर्व्याहारादेः । ६३. अस्त्यत्रच्छाया छत्रात् । ६४. उदेष्यति शकटं कृत्तिकोदयात् । ६५. उद्गाद्भरणिः प्राक्तत एव । ६६. अस्त्यत्र मातुलिङ्गे रूपं रसात् । ६७. विरुद्धतदुपलब्धिः प्रतिषेधे तथा । ६८. नास्त्यत्र शीतस्पर्श औष्णयात् । ६९. नास्त्यत्र शीतस्पर्शो धूमात् । ७०. नास्मिन् शरीरिणि सुखमस्ति हृदयशल्यात् । ७१. नोदेष्यति मुहूर्तान्ते शकटं रेवत्युदयात् । ७२. नोदगाद्भरणिमुहूर्तात्पूर्वं पुष्योदयात् । ७३. नास्त्यत्र भित्तौ परभागाभावोऽर्वाग्भागदर्शनात् । ७४. अविरुद्धानुपलब्धिः प्रतिषेधे सप्तधा स्वभावव्यापककार्यकारणपूर्वोत्तर सहचरानुपलम्भभेदात् । ७५. नास्त्यत्र भूतले घटोऽनुपलब्धेः । ७६. नास्त्यत्र शिशपा वृक्षानुपलब्धेः । ७७. नास्त्यत्राप्रतिबद्धसामर्थ्योऽग्निर्धूमानुपलब्धेः । ७८. नास्त्यत्र धूमोऽनग्नेः । ७९. न भविष्यति मुहूर्त्तान्त शकटं कृतिकोदयानुपलब्धेः । ८०. नोदगाद्भरणिमुहूर्तात्प्राक् तत एव । Jain Education International For Private & Personal Use Only ११८ ११८ ११९ ११९ ११९. ११९ ११९. १२० १२० १२० १२१ १२१ १२१. १२१. १२२ १२२ १२२ १२३ १२३ १२३ www.jainelibrary.org

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280