Book Title: Prakrit Vyakaranam Author(s): Virchand Prabhudas Pandit Publisher: Jagjivan Uttamchand Lehruchand Shah View full book textPage 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - - श्रीहमचन्द्राचार्यग्रन्थावली. १५.. श्रीमद्हेमचन्द्राचार्यविरचितस्य SAEng* सिद्धहेमचन्द्राभिधशब्दानुशासनस्य *28 प्रकाशिकानामस्वोपज्ञवृत्तिसहितस्य अष्टमोऽध्यायः अर्हम् १. अथ प्राकृतम् । १. १.। अथ शब्द आनन्तर्यार्थोऽधिकारार्थश्च; प्रकृतिः-संस्कृतम्, तत्र भवम् , तत आगतं वा प्राकृतम्. संस्कृतानन्तरं प्राकृतमधिक्रियते । संस्कृतस्यानन्तरं च प्राकृतस्यानुशासनं 'सिद्धसाध्यमानभेदसंस्कृतयोनेरेव तस्य लक्षणम् , न देश्यस्य' इति ज्ञापनार्थम् ; संस्कृतसमं तु संस्कृतलक्षणेनैव गतार्थम् । . प्राकृते च प्रकृति-प्रत्यय-लिङ्ग-कारक-समास-संज्ञादयः संस्कृतवद् वेदितव्याः; ' लोकात् ' [ १. १. ३. ] इति च वर्तते, तेन-*-*-ल-ल-ऐ-औ-कु-ब-श-ष-विसर्जनीय-प्लुतवों वर्णसमारनायो लोकादवगन्तव्यः । कु-औ स्ववर्यसंयुक्तौ भवत एव, ऐदौतौ च केषांचित्कैतवम् ; कैअवम् . सौदर्यम् । सौअरियम् . कौरवाः; कौरवा. तथा अस्वरं व्यअनम् , द्विवचनम् , चतुर्थी बहुवचनं च न भवति ॥ २. बहुलम् । १.२.। ' बहुलम्' इत्यधिकृतं वेदितव्यम् । आशास्त्रपरि समाप्तेः । ततश्च " क्वचित् प्रवृत्तिः, क्वचिदप्रवृत्तिः, क्वचिद्विभाषा, क्वचिदन्यदेव " भवति, तश्च यथास्थानं दर्शयिष्यामः ॥ For Private and Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 247