Book Title: Prakrit Vyakaranam Author(s): Hemchandracharya, Parshuram Sharma Publisher: Motilal Laghaji View full book textPage 5
________________ ॐ अर्हम् । कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितं प्राकृतव्याकरणम् । अथ प्राकृतम् ॥ ८।१।१॥ अथशब्द आनन्तर्यार्थोऽधिकारार्थश्च ॥ प्रकृतिः संस्कृतम् । तत्र भवं तत आगतं वा प्राकृतम् । संस्कृतानन्तरं प्राकृतमधिक्रियते ॥ संस्कृतानन्तरं च प्राकृतस्यानुशासनं सिद्धसाध्यमानभेदसंस्कृतयोनेरेव तस्य लक्षणं न देश्यस्य इति ज्ञापनार्थम् । संस्कृतसमं तु संस्कृतलक्षणेनैव गतार्थम् । प्राकृते च प्रकृतिप्रत्ययलिङ्गकारकसमाससंज्ञादयः संस्कृतवद्वेदितव्याः ॥ लोकाद् इति च वर्तते । तेन ऋ-ऋ-ल-ल-ऐ-औ-ङ–ज-श-षविसर्जनीय-प्लुतवों वर्णसमानायो लोकादवगन्तव्यः । ङौ स्ववर्दीसंयुक्तौ भवत एव । ऐदौतौ च केषांचित् । कैतवम् । कैअवं । सौन्दर्थम् । सौंअरिअं॥ कौरवाः । कौरवा ॥ तथा अस्वरं व्यञ्जन द्विवचनं चतुर्थीबहुवचनं च न भवति ॥ १॥ बहुलम् ॥ ८।१।२॥ बहुलम् इत्यधिकृतं वेदितव्यम् आ शास्त्रपरिसमाप्तेः ॥ ततश्च । क्वचित् प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद् विभाषा क्वचिद् अन्यदेव भवति । तच्च यथास्थानं दर्शयिष्यामः ॥२॥ आर्षम् ॥ ८।१।३॥ ऋषीणाम् इदम् आर्षम् । आर्ष प्राकृतं बहुलं भवति । तदपि यथास्थानं दर्शयिष्यामः । आर्षे हि सर्वे विधयो विकल्प्यन्ते ॥ ३ ॥Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 343